SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ पात्रकेसरिस्तोत्रम् । परैरित्यादि - परैर्वैशेषिकादिभिः पुरुषो जीव इष्यते । कथंभूतोऽपरिणामकः परिणामरहितः । कथं, सर्वथा नित्यं । ततः किं प्रमाणविषयादितत्त्व परिलोपनं परिणामित्त्वे सत्येव ह्यात्मनोऽप्रमातृत्त्वादिरूपपरित्यागेन प्रमातृत्वादिरूपसंभवात् । तथा कर्मबन्धोऽप्येवंविधस्यात्मनो न संभवतीति दर्शयन् कषायेत्यादिनाऽऽह ; - स चाऽस्य सर्वथाऽपरिणामिनो जीवस्य विशेषेण निबन्धनं सम्बन्धः । कैः, कर्मभिः । कुतः, कषायविरहात् कषायरहितत्वात्, । सकबायो हि जीवः कर्मभिः सम्बध्यते । बन्धाभावात् किं कुतश्वित्परिनिर्वृतिमुक्तिबन्धपूर्वकत्वान्मोक्षस्य, तथा तेनैव प्रकारेण क्षणिकरूपतायां तत्परिलोपनं तदभावश्च स्यात् इति ॥ २१ ॥ इदानीं सांख्यमतमाशङ्कन्य दूषयन्नाह ;मनो विपरिणामकं यदिह संसृतिं चाश्नुते तदेव च विमुच्यते पुरुषकल्पना स्याद् वृथा । न चाऽस्य मनसो विकार उपपद्यते सर्वथा ध्रुवं तदिति हीष्यते द्वितयवादिता कोपिनी ॥ २२ ॥ मन इत्यादि - - " मनश्चित्तं विपरिणामकं विविधपरिणामोपेतं यदि च संसृतिं च संसारं चतुर्गतिलक्षणमनुते व्याप्नोति तदेव च मनो विमुच्यते मुक्तं भवतीति सांख्यैरभ्युपगम्यते " तदा पुरुषकल्पना स्याद्भवेद् वृथा प्रयोजनाभावात् । यद्येवं परिणामित्वं मनसः सिद्धयेत्तदा संसारमोक्षौ स्यातां न च तत्सिद्धमिति दर्शयन्नाह न चेत्यादिना न चाऽस्य संसारमोक्षावस्थाधारतयाऽभ्युपगतस्य मनसो विकारः परिणामः सर्वथेोपपद्यते घटते । कुतः, ध्रुवं नित्यं तन्मन इत्येवमिष्यते, हि यस्मात्तर्हि सर्वथा नित्यं परिणामि च मनोऽस्त्वित्यत्राऽऽह - द्वितयवादिता कोपिनी विरोधिनीति ॥ २२ ॥ इदानीं बौद्धानां स्वाभ्युपगमादिति विरोधं दर्शयन्नाह ;पृथग्जनमनोनुकूलमपरैः कृतं शासनं सुखेन सुखमाप्यते न तपसेत्यवश्येन्द्रियैः । Jain Education International ११३ For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy