SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११२ श्रीविद्यानंदिकृतं सदसत्स्वभावाभ्यामखिलजगन्निश्चायकः किमुत किं पुनरखिलज्ञानवान भगवान सर्वज्ञो नेष्यते । अधुना सर्वे पुरुषाः सर्वदा रागादिमन्त एवेत्येकान्तं निराकुर्वन्नाह, कदाचिदित्यादिना-कदाचिदिह जगति कस्यचिन्मन्दकषायस्य कचित्कस्मिंश्चित्प्रसत्तिहेतौ प्रदेशेऽपेतरागादिता स्फुटं यथा भवति तथा समुपलभ्यते किमुत ते जिनस्य । किं लक्षणस्य, व्यपेतैनसः ध्वस्तक्लेशस्योत ॥ १९॥ साम्प्रतं युक्ति शास्त्राविरोधिवक्तृत्वं भगवतः सर्वज्ञतायां चिह्नमित्याह;-- अशेषपुरुषांदितत्त्वगतदेशनाकौशलं त्वदन्यपुरुषान्तरानुचितमाप्ततालाञ्छनम् । कणादकपिलाक्षपादमुनिशाक्यपुत्रोक्तयः स्खलन्ति हि सुचक्षुरादिपरिनिश्चितार्थेष्वपि ॥२०॥ अशेषेत्यादि;-अशेषं च तत्पुरुषादितत्त्वं तस्मिन्गतं यद्देशनायाः प्रतिपादनस्य कौशलं चातुर्य । कथम्भूतं, त्वदन्यपुरुषान्तरानुचितं त्वदन्यानि पुरुषान्तराणीश्वरादीनि तेष्वनुचितमयोग्यं । तत्किं ? आप्ततालाञ्छनं । ननु कणादादेः कस्मान्न तत्रिंगमित्याह कणादेत्यादिना-कणादकपिलाक्षपादादीनामुक्तयः शास्त्राणि स्खलन्ति प्रमाणेन प्रतिहन्यन्ते हि स्फुटं। केषु, सुचक्षुरादिपरिनिश्चितार्थेष्वपि सुष्टु चक्षुरादिभिरिन्द्रियैः परि समन्तानिश्चितार्थेष्वपि निश्चयं प्राप्तेष्वप्यर्थेषु न केवलं सूक्ष्मान्तरितदूरार्थेष्वेवेति निर्गलितोऽर्थ इति ॥ २०॥ तदेव तदुक्तीनां स्खलनं दर्शयन्नाह;परैरपरिणामकः पुरुष इष्यते सर्वथा प्रमाणविषयादितत्त्वपरिलोपनं स्यात्ततः । कषायविरहान्न चाऽस्य विनिबन्धनं कर्मभिः कुतश्च परिनिर्वृतिः क्षणिकरूपतायां तथा ॥ २१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy