________________
पात्रकेसरिस्तोत्रम् |
१११
एवं कषायजयलक्षणमप्राप्तातिशयं प्रतिपाद्य केवलज्ञानलक्षणं प्राप्त्य
तिशयं प्रतिपादयन्नाह ;
धियान्तरतमार्थवद्गतिसमन्वयान्वीक्षणाद्भवेत्खपरिमाणवत्क्वचिदिह प्रतिष्ठा परा । प्रहाणमपि दृश्यते क्षयवतो निमूलात्कचितथाऽयमपि युज्यते ज्वलनवत्कषायक्षयः ॥ १८ ॥
धियान्तरतमेति ; - - इह जगति क्वचित्पुरुषविशेषे धियां बुद्धीनां प्रतिवावस्था पराभवेत् । कुतः, तरतमार्थवद्गतिसमन्वयान्वीक्षणात् तरतमार्थोऽतिशायनं स विद्यते यस्याः सा चासौ गतिश्च प्रवृत्तिस्तस्या: समन्वयोऽनुगमस्तस्यान्वक्षिणात् सन्दर्शनात् । किं वत्, खपरिमाणवत् । अयमर्थः यथा आपरमाणोः परिमाणं प्रवर्द्धमानं नभसि परां प्रतिष्ठां प्रतिपद्यते तथा आस्थावरेभ्यो बुद्धिः प्रकृष्यमाणा प्रक्षीणशेषावरणपुरुषे परां प्रतिष्ठां प्रतिपयत इति । ननु धियां परमातिशयो ज्ञानावरणादिप्रक्षये भविष्यति । स कुतः सिद्ध इत्याह प्राणमित्यादिना - प्रहाणमपि दृश्यते । कस्य, क्षयवतः किट्ट कालिकादेर्निर्मूलात्सर्वथा क्वचित्सुवर्णादौ यथा तथाऽयमपि युज्यते ज्वलनवत्कषायक्षयः । इदमत्र तात्पर्य, यथा ज्वलनस्याग्नेरुदकप्रवाहादिना प्रक्षयस्तथा सम्यग्दर्शनादिना कषायाणामिति ॥ १८ ॥
ननु सर्वज्ञतालक्षणातिशयस्यात्यन्तासंभाव्यत्वात् कथं भगवति तत्करूपना स्यादित्याशंकां निराकुर्वन्नाह ;--
अशेषविदिक्ष्यते सदसदात्मसामान्यवि
ज्जिन ! प्रकृतिमानुषोऽपि किमुताखिलज्ञानवान् । कदाचिदिह कस्यचित्क्वचिदपेतरागादिता
स्फुटं समुपलभ्यते किमुत ते व्यपेतैनसः ॥ १९ ॥ अशेषविदिति-- हे जिन ! इह जगांत अशेषविदिष्यते । कोऽसौ, प्रकृतिमानुषोऽपि सामान्यजनोऽपि । कथंभूतः सन्, सदसदात्मसामान्यवित्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org