________________
११०
श्री विद्यानंविकृतं
न चेत्यादि -- न चाऽसदप्युदीयत उत्पाद्यते चैतन्यं, किंवत्, सुराङ्ग मदवत् सुरा मयं तदङ्गानि कारणानि पिष्टोदक गुडघातक्यादीनि तेभ्यो यथाऽत्यन्तमसन्नेव मदो मदशक्तिरुत्पद्यते तथाभूतेभ्यश्चैतन्यमिति तर्हि - सदेवाऽभिव्यज्यते तदित्यत्राह न चेत्यादिना न च तथा सर्वथा सदेव वा व्यज्यते किंवत् शिखिकलापवैचित्र्यवत्, न हि शिखिनो मयूरस्य कलापवैचित्र्यं सर्वथा सदभिव्यज्यते किन्तु कथंचित्तथा चैतन्यमपि कथंचिसदभिव्यज्यतां । तथा च जैनमतसिद्धिरेतेन देहगुणश्चेतन इति मतं प्रत्याख्यातं यस्मात्त्वचिन्मृतकरं धनार्थपिठरादिके नेक्ष्यते साऽतः कथं क्षितिजलादिसंघगुण इष्यते चेतनेति ॥ १६ ॥
इदानीं भगवतो वीतरागं वपुः स्तुवन्नाह ;प्रशान्तकरणं वपुर्विगतभूषणं चाऽपि ते
समस्तजनचित्तनेत्रपरमोत्सवत्वं गतम् । विनाऽऽयुधपरिग्रहाज्जिन ? जितास्त्वया दुर्जयाः कषायरिपवो परैर्न तु गृहीतशस्त्रैरपि ॥ १७ ॥
प्रशान्तकरणमिति - वपुः शरीरं । कथंभूतं, प्रशान्तकरणं प्रशान्तानि शान्तिं प्राप्तानि करणानीन्द्रियाणि यस्मिन्तत् । पुनः कथंभूतं, विगतभूषणं विगतानि प्रयातानि भूषणान्याभरणानि यस्मिन्तत् । एवं च तत्तर्हि कस्याऽपि वल्लभं न स्यादित्याशङ्कायां समस्तेत्यादिनाऽऽह समस्तजनचित्तनेत्राणां निखिलप्राणिमानसलोचनानां परम उत्कृष्ट उत्सवः प्रमोदो यस्मात्तस्य भावस्तत्त्वं तद्गतं प्राप्तमेवम्विधशरीरसंयुक्तेन त्वया किं कृतं ? हे जिन ! त्वया जिनेन जिताः । के, कषायरिपवः क्रोधमानमायालोमा एव रिपवः शत्रवः । कथंभूता, दुर्जयाः दुःखेन जेतव्याः । कथं जिताः, विनाऽऽयुधपरिग्रहात् शस्त्रादिधारणं विनैव । अपरैरपि जिता भविष्यन्तीत्याशङ्कायामाहापरैरित्यादिना - अपरैर्हरिहरादिभिस्तु न जितास्ते । किंविशिष्टैरपि, चापत्रिशूलादिशस्त्राणि धारिभिरपि इति ॥ १७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org