________________
पात्रकेसरिस्तोत्रम् ।
१०९
नन्वात्मनि सिद्धे तस्य सर्वज्ञत्वादिगुणोपेतत्त्वमागमप्रणेतृत्वं च सिद्धयेत्, न चासौ सिद्धस्तत्प्रमाणाभावादिति चार्वाकः,तमेव निराकुर्वन्नाह;
स्मृतिश्च परजन्मनः स्फुटमिहेक्ष्यते कस्यचि
त्तथाप्तवचनान्तरात्प्रसृतलोकवादादपि । न चाऽप्यसत उद्भवो न च सतो निमूलात्क्षयः
कथं हि परलोकिनामसुभृतामसत्तोहाते ॥ १५॥ स्मृतिश्चेत्यादि-परजन्मनः पूर्वभवस्य स्मृतिः स्मरणं च स्फुटमसंशय कस्यचित्प्राणिन इह लोक ईक्ष्यते अतः । कथं, स्फुटमसत्ता नास्तित्त्वं चार्वाकैरूह्यत उत्पाद्यते तथा प्रसृतलोकवादादपि प्रसृतः प्रसिद्धः प्रवृत्तो वा 'पूर्वमेवंविधमेतैः सुकृतं कृतं येन सुखेन तिष्ठन्ति एतैश्च दुष्कृतं कृतं येन दुःखेन क्लिश्यन्ति' इत्यादिरूपस्तथाऽपि परजन्म नेष्यतेऽतः कथं तेषामसत्तोह्यते प्रतिपाद्यते वा । केषामसुभृतां परलोकिनामतीतभवादागतानां भावि भवं गमिष्यतां तथा तेनैव प्रकारेणाऽऽप्तवचनान्तरात् ' जीवोअणाइ. णिहणो' इत्यायागमादपि तेषां परजन्मेष्यतेऽतः कथमसत्तोह्यते । यदप्युच्यते चार्वाकैः कायाकारपरिणतेभ्यः पृथिव्यादिभ्यश्चैतन्यमसदुच्यते तच्च कियत्कालमवस्थाय निर्मूलं प्रतीयत इति तदयुक्तमित्याह-नचेत्यादिनान च सर्वथाऽसत उद्भवः खरविषाणवत् न च सतो निमूलात् क्षयः पृथिव्यादितत्त्ववत्; द्रव्यरूपतया सतः पर्यायरूपतया त्वसतश्चेतनस्योत्पादविनाशाभ्युपगमे जैनमतसिद्धिरिति ॥ १५ ॥ चैतन्यं चतुर्णी भूतानां कार्य व्यङ्गन्यं चेति तद्वयं निराकुर्वन्नाह;-- न चाऽप्यसदुद्दीयते न च सदेव वा व्यज्यते
सुराङ्गमदवत्तथा शिखिकलापवैचित्र्यवत् । वचिन्मृतकरन्धनार्थपिठरादिके नेक्ष्यते
कथं क्षितिजलादिसङ्गगुण इष्यते चेतना ॥ १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org