SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्रीविद्यानंदिकृतं त्वादिगुणोपेतोऽपि सन्नेवं प्रागुक्तप्रकारेण तदा परेष्वस्मादृक्षु हे जिन ! का कथा सत्याभिधानेन का वार्त्ता ? किंविशिष्टेषु, प्रकृतिलुब्धमुग्धादिषु प्रकृत्या स्वभावेन लब्धा मुग्धाश्वादिशब्देन भीतद्विष्टादिपरिग्रहः । अत्राऽऽह मीमां• सकः आगमलक्षणाया वचनसंहतेरपौरुषेयतया केनचित्करणासंभवाद्धगवतो विगत दोषवाक्वं ततः कथं सिद्धमिति, तदयुक्तमित्याह-न चेत्यादिना । न च दृश्यते प्रमाणतः प्रतीयते । काऽसौ वचनसंहतिः । कथंभूताऽकृतकात्मिका अपौरुषेयाऽपि लौकिकवचनसंहतेरिव वैदिक्या अपि तस्यास्ताल्वादिव्यापारवत्तया तया कृतकात्मत्वोपपत्तेः । एतदेवाह पुनरित्यादिना - हि -यस्मान्न विरुद्धयते । किं पुनर्जननमपि न केवलमभिव्यक्ति: किन्तु युक्तिभिस्तन्न विरुद्ध्यत इति ॥ १३ ॥ एतदेव दर्शयन्नाह ;-- १०८ सजन्ममरणर्षिगोत्रचरणादिनामश्रुतेरनेकपदसंहतिप्रतिनियामसन्दर्शनात् । फलार्थिपुरुषप्रवृत्तिविनिवृत्तिहेत्वात्मनां श्रुतेश्च मनुसूत्रवत्पुरुषकर्त्तृकैव श्रुतिः ॥ १४ ॥ सजन्मेत्यादि । सजन्ममरणर्षयश्च तद्गोत्रं च तदाचरणं च तान्यादियेषां स्वर्गफलानां तेषां नाम संज्ञा तस्य श्रुतेः श्रवणात् पुरुषकर्त्तकैव । का, दो यत्रैतेषां नाम श्रूयते तत्पुरुषकर्त्तृकं दृष्टं यथा मनुसूत्राणि तथा चेयं तस्मात्तथेति । तथाऽनेकपदसंहतिप्रतिनियामसंदर्शनात् अनेकानि च तानि पदानि सुबन्ततिङन्तानि च तेषां संहतिस्तस्याः प्रतिनियामः क्रमरचना तस्य सन्दर्शनात् । न केवलमेतस्माद्धेतुद्वयात्सा तत्पूर्विका किन्तु फलार्थिपुरुषप्रवृत्तिविनिवृत्तिहेत्वात्मनां श्रुतेः स्वर्गादिफलार्थिनश्च पुरुषाश्च तेषां ये प्रवृत्तिनिवृत्ती तयोश्च ये हेतुभूता आत्मानः श्रेयः प्रत्यत्राऽऽहुर्यज्ञसाधकाः स्वभावा यज्ञादीनां ब्राह्मणवेदादीनाञ्च तेषाञ्च श्रुतेर्वेदात्प्रतीतेरिति ॥ १४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy