________________
पात्रकेसरिस्तोत्रम् ।
१०७
नादनुपलंभाद्भगवति, अतोऽप्येवंविधवचनादपि हेतोर्न केवलमनन्तरोक्तगुणोपेतत्वात् भगवन् ! इन्द्राभिपूज्यविशिष्टज्ञानेन वा संपन्नपरमेष्टितायाः परमात्मतायाः पदं स्थानं त्वमेव नान्य इति ॥ ११ ॥
ननु वितथकारणं मे नास्तीति भवतैतत्कुतो निश्चितमिति भगवत्पर्यनु.. योगे सति चाचार्यः आह;
न लुब्ध इति गम्यसे सकलसंगसंन्यासतो
न चाऽपि तव मूढता विगतदोषवाग्यद्वान् । अनेकविधरक्षणादसुभृतां न च द्वेषिता
निरायुधतयाऽपि च व्यपगतं तथा ते भयम् ॥ १२ ॥ ___ न लुब्ध इत्यादि;-लुब्धः परिग्रहेष्वासक्त इत्येव न गम्यसे न प्रतीयसे । कुतस्तत्र कारणमाह--सकलसङ्गसंन्यासतः समस्तपरिग्रहपरित्यागात्, न चाऽपि तब मूढताऽप्यज्ञानताऽपि । कुतो, विगतदोषवाक् यद्भवान् विगता विनष्टा दोषाः पूर्वापरविरोधादयो यस्यास्तादृशी वाक् यस्यासी विगतदोषवाक् यद्यस्मात्कारणात् भवान् भगवान्, न च नैव द्वेषिता क्रोधिताऽनेकविधरक्षणात् अनेकप्रकारेण व्रतसमितिगुप्त्यादिलक्षणेन पालनात् । केषामसुभृतां प्राणिनां, तथा भयमपि साध्वसमपि व्यपगतं नष्टं ।' कया, निरायुधतया निरस्तसमस्तप्रहरणतया चेति ॥ १२ ॥
अत्र विगतदोषवाक्त्वं मे कथं सिद्धमिति भगवदाशङ्कां स्तोतुः प्रज्ञाति-- शयपरीक्षार्थ प्रवृत्तामिव निराकुर्वन्नाह;यदि त्वमपि भाषसे वितथमेवमाप्तोऽपि सन्
परेषु जिन का कथा प्रकृतिलुब्धमुग्धादिषु । न चाऽप्यकृतकात्मिका वचनसंहतिदृश्यते
पुनर्जननमप्यहो ! न हि विरुध्यते युक्तिभिः ॥ १३॥ यदीत्यादि; याद त्वमपि न केवलमीहशो जन इत्यपिशब्दार्थः,.. वितथमेवासत्यमेव भाषसे वदसि । कथंभूतोऽप्याप्तोऽपि सन् वीतरागत्वसर्वज्ञ
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org