________________
श्रीविद्यानंदिकृतं
अनन्यसदृशं सुखं त्रिभुवनाधिपत्यं च ते
,
सुनिश्चितमिदं विभो ! सुमुनिसम्प्रदायादिभिः ॥ १० ॥ क्षयाच्चेत्यादि - क्षयाच्च विनाशाच्च । केषां कर्मणां । कथंभूतानां रतिरागमोहभयकारिणां रतिरागवैचित्य साध्वस कर्तॄणां ततः किं ते जातं ? कषायरिपुनिग्रहः कषायाः क्रोधादयस्त एव रिपवो जीवस्य दुःखहेतुत्वात् तेषां निर्जयः प्रक्षयस्तथा सकलतत्त्वाविद्योदयः निखिलतत्त्वविद्याऽऽ विभावस्तथाऽनन्यसदृशं सुखं अन्यैरिन्द्रियादिसुखैर्न सदृशं न केवलमेतावदेव किन्तु त्रिभुवनाधिपत्यं त्रिलोकप्रभुत्वं च ते तव हे विभो ! इदं कषायरिपुनिग्रहादिकं सुष्ठु निश्चितं निर्णीतं । कैः कृत्त्वा, सुमुनि सम्प्रदायादिभिः शोभना मुनयो गणधर देवादयस्तेषां सम्प्रदाय उपदेशपरम्परा, अत्राऽऽदिशब्दादनुमानादिपरिग्रह इति ॥ १० ॥
१०६
तस्माद्विशिष्टगुणोपेतत्वात्त्वमेव भगवन् ! परमेष्टिताया: पदं स्थानं न केवलमेतस्मादपि तु विशिष्टवचनत्वाच्च त्वमेव तस्याः पदमित्याह ; -- न हीन्द्रियधिया विरोधि न च लिंगबुद्धया वचो न चाप्यनुमतेन ते सुनयसप्तधा योजितम् । व्यपेतपरिशङ्कनं वितथकारणादर्शना
1
दतोऽपि भगवंस्त्वमेव परमेष्टिताया: पदम् ॥ ११ ॥ न हीत्यादि न हि नैवेन्द्रियधिया प्रत्यक्षबुद्ध्या विरोधि बाधितं ते तव वचो न च लिंगबुद्ध्या नाऽप्यनुमानज्ञानेन विरोधीति सम्बन्धः, न चाप्यनुमतेन नैवागमैकदेशेनापि विरोधि, हे सुनय इति सम्बोधनं । यदि वा कथंभूतं वचः, सुनयसप्तधायोजितं सुनयैः नैगमसङ्ग्रहादिभिः सप्तधा सप्तप्रकारं योजितं रचितं सप्तभंगैः सहितमित्यर्थः पुनः कथंभूतं वचः, व्यपेत परिशङ्कनं विशेषेणापेतं विनष्टं परि समन्ताच्छङ्कनमाशङ्का । तकिं, प्रमाणमप्रमाणं वेत्येवंरूपा यस्मिन्तत्तथोक्तं, कुत एतत्तथाविधं वितथकारणादर्शनात् वितथमसत्यं तस्य कारणानि हेतवो रागद्वेषमोहास्तेषामदर्श
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org