________________
पात्रकेसरिस्तोत्रम् ।
१०५
बपि, तथाऽकुपितोऽपि च क्रोधरहितोऽपि क्षिपसि प्रेरयसि ध्रुवमवश्यभावेन । क्व, दुर्गतौ । कान्नसूयकान त्वद्गुणासहिष्णून, तर्हि निग्रहानुग्रही कुर्वतस्तव परमेष्ठिताविरोधो न भविष्यतीत्यत्राह न चेत्यादि;--न चेश! परमेष्ठिता विरुध्यते । कुतो, यद्यस्माद्भवान्न कुप्यति न तुष्यति प्रकृति स्वभावमाश्रितः, किंविशिष्टां, मध्यमां मध्यस्थरूपामिति ॥ ८॥
अधुना सयोगिकेवल्यवस्थायां भगवतोऽनन्यसाधारणान् धर्मान कथयन्नाह;परिक्षपितकर्मणस्तव न जातु रागादयो
न चेन्द्रियविवृत्तयो न च मनस्कृता व्यावृतिः। तथाऽपि सकलं जगद्युगपदंजसा वेत्सि च . प्रपश्यसि च केवलाभ्युदितदिव्यसच्चक्षुषा ॥ ९॥ परिक्षपितेत्यादि:--परि समन्तात् निःशेषतः क्षपितकर्मणो विनाशितघातिकर्मचतुष्टयस्य तव जिनेन्द्रस्य न जातु कदाचिदपि रागादयो नाऽपीन्द्रियविवृत्तय इन्द्रियाणां स्पर्शनादीनां विशिष्ट वृत्तयो यथा स्वसमर्थग्रहणव्यापारा निमेषोन्मेषादयो वा न च मनस्कृता मनःपूर्विका व्यावृतिश्चेष्टा, तथापीन्द्रियमनोव्यापाराभावप्रकारेणापि ज्ञानावरणादिप्रक्षयप्रभवज्ञानेन समस्तं जगद्युगपदेकहेलया वेत्सि च जानास्येव । न केवलं वेत्स्येव किन्तु प्रपश्यसि । केन कृत्त्वा, केवलेत्यादि--केवलशब्देन केवलज्ञानं केवलदर्शनं च गृह्यते तदेवाभ्युदिते अभि आभिमुख्येन सकलार्थसाक्षात्कारिलक्षणेनोदिते प्रादुर्भूते दिव्यमन्यजनासंभवि सत्समीचीनं चक्षुस्तेनेति ॥ ९॥
तथा कर्मप्रक्षयाबद्भगवतः सम्पन्नं तद्दर्शयन्नाह;-- क्षयाच रतिरागमोहभयकारिणां कर्मणां ___ कषायरिपुनिर्जयः सकलतत्त्वविद्योदयः।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org