________________
१०४
श्रीविद्यानंदिकृतं
गतत्वं च तथाऽपि विरुद्धप्रकारेणापि त्वयि भगवति सङ्गच्छते घटते त्वन्माहात्म्यस्य तादृशत्वात् ॥ ६॥ तथेदं विरुद्धमपि भगवति संगच्छत इत्याह;त्वमिन्द्रियविनिग्रहप्रवणनिष्ठुरं भाषसे
तपस्यपि यातयस्यनघदुष्करे संश्रितान् । अनन्यपरिदृष्टया षडसुकायसंरक्षया
स्वनुग्रहपरोऽप्यहो ! त्रिभुवनात्ममा नापरः ॥७॥ त्वमित्यादि; -त्वं भगवन् ! भाषसे निष्ठुरमिन्द्रियविषयप्रवृत्तिनिरोधकं । कथंभूतं, इन्द्रियविनिग्रहप्रवणं इद्रियाणां विशेषेण निग्रहः स्वविषये प्रवृत्तिनिरोधस्तत्र प्रवणं दक्षं न केवलं भाषसे किन्तु यातयसि क्लेशयसि यत्नवतो करोषि “ यती प्रयत्ने " धातोर्ण्यन्ते रूपं" क, तपसि, किंविशिष्टे, दुष्करे दुश्चरे । किंविशिष्टोऽनघः। कान्, संश्रितान् । कया, षडसुकायसंरक्षया षट्रायप्राणिदयया। कथंभूतयाऽनन्यपरिदृष्टयाऽन्यैरीश्वरादिभिरप्रतीतया । कथंभूतोऽपि, स्वनुग्रहपरोऽपि । केषां, त्रिभुवनात्मनां अहो भगवन् ! यत एव त्वं तेषामनुग्रहपरोऽत एव तद्भाषसे; ईश्वरादिरपि कश्चित्तेषामनुग्रहपरो भविष्यतीत्याह- नापरो न द्वितीयस्त्वमेवेत्यर्थः ॥ ७ ॥
यथेश्वरस्तुष्टः स्तुतिपरेषु सुखं संपादयति तद्विपरीतेषु च दुःखं न स भगवान्तस्य तोषरोषयोरभावेऽपि तत्संपादनसामर्थ्यसंभवादिति दर्शयन्नाह;ददास्यनुपमं सुखं स्तुतिपरेष्वतुष्यन्नपि
क्षिपस्यकुपितोऽपि च ध्रुवमसूयकान्दुर्गतौ । न चेश! परमेष्टिता तव विरुद्धयते यद्भवान
न कुप्यति न तुष्यति प्रकृतिमाश्रितो मध्यमाम् ॥ ८॥ ददासीत्यादि-ददासि । किं तत्, सुखं कथंभूतमनुपमं। केषु, स्तुतिपरेषु स्तवनतत्परेषु । कथंभूतोऽप्यतुष्यन्नप्यहमभिः स्तुत इति चित्ते प्रसत्तिमकुर्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org