________________
पात्रकेसरिस्तोत्रम् ।
१०३
तथापि जिन ! सम्मतं सुविदुषां न चात्यद्भुतं
'भवन्ति हि महात्मनां दुरुदितान्यपि ख्यातये ॥५॥ परस्परविरोधेत्यादि; हे जिन! तव शासनं वचनं, कथंभूतं, निरर्थक सदेवासदेव चेत्यायेकान्तरूपादर्थाभिधेयानिष्क्रान्तं परस्परविरोधवद्विविधभंगशाखाकुलं परस्परमन्योन्यं विरोधः परस्परपरिहारस्थितिलक्षणः स येषां विद्यते तेच ते विविधभंगाश्चास्तित्वनास्तित्वादिविकल्पास्त एव शाखास्ताभिराकुलमाकीर्णं, पृथग्जनसुदुर्गमं पृथग्जना हेयोपादेयविवेकशून्यहृदयास्तैः सुदुर्गमं सुष्टु दुरवबोधं तथाप्येवंविधनिरर्थकत्वप्रकारण स्थितमपि तव शासनं सम्मतमभिप्रेतं । केषां, सुविदुषां शोभनपण्डितानां । न च नैवात्यद्भुतमाश्चर्यभूतमेतत्कुत इत्याह, भवन्ति हीत्यादिना- हि यस्माद्भवन्ति संपद्यन्ते महात्मनां सातिशयज्ञानवतां दुरुदितान्यपि परस्परविरुद्धवचांस्यपि ख्यातये प्रसिद्धये प्रमाणोपपन्नत्त्वात्; अवार्थान्तरन्यासालङ्कारः तल्लक्षणं हि यथा-उक्तिरर्थांतरन्यासः स्यात्सामान्यविशेषयोरिति ॥ ५ ॥ इदानी सपरिग्रहत्वनि:परिग्रहत्वयोर्भगवत्यविरोधं दर्शयन्नाह;
सुरेन्द्रपरिकल्पितं बृहदनय॑सिंहासनं ___ तथाऽऽतपनिवारणत्रयमथोल्लसच्चामरम् । वशं च भुवनत्रयं निरुपमा च निःसंगता
न संगतमिदं द्वयं त्वयि तथाऽपि संगच्छते ॥ ६ ॥ सुरेन्द्रेत्यादि-सुरेन्द्रैः परिकल्पितं रचितं । किं तत्, बृहदनय॑सिंहासनं बृहन्महदनय॑ममूल्यं तच्च तत्सिंहासनं तथा तेनैव प्रकारेणातपनिवारणत्रयं छत्रत्रयं, अथानन्तरमुल्लसत्स्फुरच्चामरं चतुःषष्टिसंख्यं, वशं च भुवनत्रयं, " आज्ञाधीनं जगत्रयं " निरुपमा चोपमारहिता निसंगता निःपरिग्रहता न संगतं न युक्तं विरुद्धकमिदमनन्तरोक्तं सिंहासनादिविभूतिमत्त्वं निःसं
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org