________________
श्रीविद्यानंदिकृतं च भयमुपगच्छस्यपि च संसृतेः संसारात् असुभृतां प्राणिनां वधं हिंसा द्वेक्ष्यपि प्रतिषेधस्यपि, कदाचित्कषायेन्द्रियकालेऽदयोदयः न दयाऽदया हिंसा तस्या उदय उत्पादो यत्र । किंविशिष्टोऽपि, विगतचित्तकोऽपि विगतं विनष्टं चित्तं भावरूपं यस्य ततो अमनस्काः केवलिन इति वचनात्; अंजसा परमार्थेन तथाऽपि रागलोभद्वेषदुष्टप्रकारेणापि गुरुः परमात्मा इष्यसे सः । किंविशिष्टस्तु जिनोऽशेषकर्मोन्मूलकः।पुनरपि किंविशिष्टस्त्रिभुवनैकबन्धुः॥३॥ कथंभूतस्य भवतः केवलमभूदित्याह;
तपः परमुपाश्रितस्य भवतोऽभवत्केवलं __ समस्तविषयं निरक्षमपुनश्च्युति स्वात्मजम् । निरावरणमक्रमं व्यतिकरादपेतात्मकं
तदेव पुरुषार्थसारमभिसम्मतं योगिनाम् ॥ ४॥ तप इत्यादि-भवतो जिनस्याभवत्संजातं । किं तत्केवलं केवलज्ञान, कथंभूतस्योपाश्रितस्य सेवितवतः । किं तत्तपः। किंभूतं, परमुत्कृष्टमेकत्ववितर्कशुक्लध्यानलक्षणं । किंविशिष्टं, केवलं समस्तविषयं समस्ता अखिला विषया यस्मिन्तत्, निरक्षमक्षेभ्य इन्द्रियेभ्यो निष्क्रान्तं निरक्षम तीन्द्रियमित्यर्थः, अपुनश्च्युति न विद्यते पुनः पश्चात् च्युतिर्विनाशो यस्य, स्वात्मजं स्वस्य जीवस्यात्मा प्रक्षीणावरणस्वभावस्तस्माज्जातमत एव निरावरणं, अक्रम युगपत्सर्वार्थवाहि निरक्षत्वात्, व्यतिकरादपेतात्मकं शुक्लादेः पीतादितया ग्रहणं व्यतिकरस्तस्मादपेत आत्मस्वभावो यस्य । कस्तेन पुरुषार्थ इत्याह तदेवेत्यादि-तदेव केवलज्ञानमेव पुरुषार्थानां धर्मादीनां मध्ये सारं प्रधानभूतं अभिसम्मतं भिक्षूणाम् ॥ ४ ॥ ___ ननु यदि समुत्पन्न केवलज़ानो भगवान्कथं तदेवास्ति तदेव च नास्तीत्यादि तदीयवचोविरोध इत्याशंकां निराकुर्वन्नाह;
परस्परविरोधवद्विविधभङ्गशाखाकुलं पृथग्जनसुदुर्गमं तव निरर्थकं शासनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org