SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ पात्रकेसरिस्तोत्रम् । Ainmami तामेव स्तुतिं विदधानो मतिरित्याद्याह;मतिः श्रुतमथावधिश्च सहजं प्रमाणं हि ते ततः स्वयमबोधि मोक्षपदवीं स्वयंभूर्भवान् । न चैतदिह दिव्यचक्षुरधुनेक्ष्यतेऽस्मादृशां __ यथा सुकृतकर्मणां सकलराज्यलक्ष्म्यादयः ॥२॥ मतिरित्यादि । मतिश्च श्रुतं च मतिश्रुतमथ तथाऽनन्तरं वाऽवधिश्चैतत्प्रभाणत्रयं ते तव सहजं सहोत्पन्नं हि स्फुटं ततः प्रमाणत्रयात् स्वयं परोपदेशमन्तरेण अबोधि बुद्धवान् । कां, मोक्षपदवीं मोक्षस्य पदवी मार्गः सम्यग्दर्शनाद्यात्मकस्तां, अतः स्वयंभूभवान् स्वयं परोपदेशमन्तरेण मोक्षमार्ग ज्ञात्वा अनुष्ठाय चानन्तचतुष्टयरूपतया भवतीति स्वयंभूः । नन्विदं ज्ञानत्रयमिदानीमस्मदादीनामपीह भविष्यतीति ततः कथं भगवतो विशिष्टो गुणः स्तुतः स्यादित्यत्राऽऽह, न चेत्यादि । न च नैवमेतदनंतरोक्तं विशिष्टज्ञानत्रयमिष्यते दृश्यते । कथंभूतं, दिव्यचक्षुः चक्षुरिव चक्षुः पदार्थस्वरूपप्रकाशने निमित्तत्वात् दिव्यं सामान्यप्राणिनामसंभवित्वात् तच्च तच्चक्षुश्चेह क्षेत्रेऽधुनेदानीमस्मादृशां छद्मस्थानां । अत्रैवं दृष्टान्तमाह- यथेत्यादि, अयमर्थः- सुकृतकर्मणां विशिष्टपुण्यवतां चक्रव ादीनां सम्बन्धिन्यः सकलराज्यलक्ष्म्यादयो यथावेदानीमस्मादृशां नेष्यन्ते तथा तदपि ॥ २॥ भगवतः क्वचिद्रागद्वेषसद्भावे परमेष्ठिता न विरुद्ध्यत इत्याह;व्रतेषु परिरज्यसे निरुपमे च सौख्ये स्पृहा विभेष्यपि च संसृतेरसुभृतां वधं द्वेक्ष्यपि । कदाचिददयोदयो विगतचित्तकोऽप्यअसा तथाऽपि गुरुरिष्यसे त्रिभुवनैकबन्धुर्जिनः ॥ ३ ॥ व्रतेष्वित्यादि । व्रतेष्वहिंसादिषु परिसमन्ताद्रज्यसेऽनुरागं करोषि; निरुपमे चोपमातिक्रान्ते च सौख्ये मोक्षसुखे स्पृहाऽभिलाषः, विभेष्यपि Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy