________________
श्रीविद्यानंदिकृतं नमः श्रीवीतरागाय जिनाय । पात्रकेसरिस्तोत्रम् ॥
सटीकं
mmarrown
जिनेन्द्र ! गुणसंस्तुतिस्तव मनागपि प्रस्तुता __ भवत्यखिलकर्मणां प्रहतये परं कारणम् । इति व्यवसिता मतिर्मम ततोऽहमत्यादरात्
स्फुटार्थनयपेशलां सुगत ! संविधास्ये स्तुतिम् ॥ १ ॥ टीका-श्रीवर्द्धमानमानम्य संसारार्णवतारणम् ।
बृहत्पंचनमस्कारपदं विव्रियतेऽधुना ॥ . जिनानां देशतः कर्मोन्मूलकानां गणधरदेवादीनामिन्द्र स्वामिन् ! तव गुणसंस्तुतिर्गुणानां केवलज्ञानादीनां समीचीना मनोवाक्कायविशुद्धिपूर्विका स्तुतिर्मनागपि स्तोकाऽपि प्रारब्धा कृता भवति संपद्यते। किं, कारणं । कथंभूतं, परमुत्कृष्टं । किमर्थं, प्रहतये विनाशाय । केषामखिलकर्मणामिति हेतोर्व्यवसितोद्योगं कृतवती। काऽसौ, मतिः। कस्य, मम स्तोतुस्ततस्तस्मान्मतेर्व्यवसायात् अहमत्यादरात् भक्तिप्रकर्षात्संविधास्ये करिष्ये। कां, स्तुतिं । कथंभूतां, स्फुटार्थनयपेशलां स्फुटो व्यक्तः संशयादिरहितोऽर्थो येषां ते च ते नयाश्च तैः पेशलां मनोज्ञां । कथंभूत जिनेन्द्र, सुगत शोभनं गतं ज्ञानं यस्य । पृथ्वीच्छन्दोलक्षणं वृत्तरत्नाकरे यथा “ जसौ जसयलावसुग्रहयातिश्च पृथ्वी गुरुः" इति ॥ १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org