________________
अध्यात्मतरंगिणी।
संसारातीतमूर्त्तिन वससि हृदये कस्य लोकत्रयेऽस्मिन्
नो केषां चित्रमेतद्विभवपदपरोऽप्यय॑से यन्मुनींद्रैः ॥ ३७॥ सौख्यं मोहक्षयेणावृतियुगगमनाद् दृष्टिबोधावपि स्तो
वीर्य विघ्नव्ययेनोद्गमविगमहतिश्चायुरुच्छेदनेन । नामोच्छित्तेरमूर्त्ता स्थितिसमयकुलाऽसंगमो गोत्रनाशा
द्वेद्योच्छेदादशेषंद्रियजनितसुखातंकसंपर्कहानिः ॥ ३८॥ दृष्टिनिं गुणौ द्वाविह विनिगदितावात्मनि प्राप्ततत्त्वै
स्तावेव प्राप्तवंतौ विविधविधितयोत्कर्षभावाद्वहुत्वम् । वर्गांतर्भावमत्र प्रकृतगुणयुगे याति कश्चिन्न वर्गः
सौमयश्रद्धावगाहाऽगुरुलघुगुणताऽवाध्यताद्याविरोधः॥३९॥ मुक्तौ नापूर्वमाप्यं किमपि सुकृतिभिश्चेतितामात्मरूप--
प्राप्तिं प्राहुः प्रणीताखिलनिगमनयाः केवलज्ञानभाजः । सूक्ष्मास्तेषां जिनेंद्रोदितमतमहितज्ञानसाम्राज्यसंप - संपन्नाः सर्वसत्त्वोत्पलविपिनमुदे सोमदेवाश्च साक्षात् ॥४०॥ इति श्रीसोमदेवाचार्यप्रणीताऽध्यात्मतरंगिणी समाप्ता ।
१ यो हि सकलार्थव्यापनशील: नैव सर्वगत इत्यनुमानविरोधश्चेत्तत्रेदमनुमानं सिद्धः सर्वगतः सकलार्थव्यापिवृत्तित्वाद्यत्सकलार्थव्यापिवृत्तिश्चायं तस्मात्सर्व गत इति स न ज्ञानरूपेणैव जैनैः सकलार्थव्यापितत्वप्रतिज्ञानानात्मप्रदेशस्तदुक्तं "आत्मा ज्ञानप्रमाणो ज्ञानं ज्ञेयप्रमाणमुद्दिष्टं । ज्ञेयं लोकाकाशं तस्माज्ज्ञानं हि सर्वगतं ॥" ज्ञानात्मकत्वेन निखिलार्थव्यापिनोऽपि न मुक्तात्मनः सर्वगतत्वमिति विरोधाभावार्थः । २कार्यमुत्पाद्यं तदेव रूपं स्वभावो यस्य स नित्योऽनश्वरः कथं! षड्गुणा हानिवृद्धित्वात्कार्यरूपः शुद्धद्रव्यार्थिकनयापेक्षया नित्य इति न विरोधः ॥ ३ उक्तौ । ४ नानाकार्यरूपतया । ५ गच्छति । ६ न प्राप्यं, अपूर्व नयप्रमाणसंवादं परकथितमित्यर्थः । ७ जिननाथाभिहितसमयसाराद्यध्यात्मशास्त्रार्चितबोधसार्वभौमपद्मेश्वराः । सर्वजीवा एवोत्पलविपिनं पद्मसमूहस्तस्य मुदे हर्षाय ।।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org