SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ श्रीसोमदेवप्रणीता सत्यात्मन्यात्मरूपे विरमति मरुतौ त्यक्तसंगेऽघयोगे क्षीणोल्लाघे क्रियौघे समधियति यथाख्यातचारित्रमत्र । प्रोन्मुक्ताशेषदोषे भवति कनकवत्पांतशुक्लोपपन्ने मोक्षोयोगिन्यवश्यं यदविकलविधौ कारणे को विलंबः ॥३३॥ सर्वासां हि क्रियाणामुपरतिमसमां प्राहुरेतच्चरित्रं पात्रं तन्मुख्यवृत्त्या भवति खलु यतो योगिनोऽन्यः परोन। अस्याहत्यभ्युपेतौ स्थितिरिह न भवेन्मुक्तहेतुप्रपंच उत्कृष्टायाः परोऽस्याः अपि जगति यतो नास्ति रत्नत्रयाप्तेः३४ ऊर्ध्व व्रज्यात्मकत्वादयमनिलशिखावत्ततः प्रोमीः नो याने चाऽयमास्ते जगति हि गगने यन्न धर्माऽस्तिकायः। प्रत्यावृत्तिर्न मोक्षा स्वमविगमनान्नैव जीवैविहीनः संसारोऽनंतभावान्न च जननविधिस्तेष्वपूर्वेष्वहेतोः॥ ३५ ॥ आलोकांतात्समीरात्समतति समये नायमेकेन मुक्ता वस्योत्कर्षाद्विशुद्धेर्धन विवरतया किंचिदूनाकृतिः स्तैः। एनः संवृद्धिबंधव्युपरमकरणाद् ध्यानमेतच्च मुक्त माये द्वे तत्र पूर्वश्रुतिनि जिनपतावुत्तरे द्वे च शुक्ले ॥ ३६ ॥ त्वं गंता नो यियासा तव न च गतिमान्स्यंदमानप्रदेशः सर्वार्थव्याप्यवृत्तिर्न च सकलगतः कार्यरूपोऽपि नित्यः । १ सम्यगधिकं गच्छति आत्मस्वभावावस्थोपेक्षालक्षणं यथाख्यातचारित्रं । २ नियमेन । ३ व्यावृत्तिं । ४ अयोगिजिनात् । ५ ऊर्ध्वगमनस्वभावभावत्वात्। ६ ऊ - शासमाश्रितशिवसदनं । ७ याति। ८ तिष्ठति । ९ अत्राऽऽभिविध्यर्थः । १० संगच्छेत। ११ यद्यपि रूपाद्यात्मिका न तत्राऽऽकृतिस्तथापि प्रतिबिंब भवति सकलमलकलंकमुक्तरुत्केर्षात् । १२ गमनशीलः, परं न यातुमिच्छा मुक्तात्मनां स्वभावादेव गमनरूपत्वप्रसिद्धर्वायुवदिति न कश्चिद्विरोधः। १३ यः किल गतिमान् भवति स कथमस्पंदमानप्रदेशः, गतिमत्त्वेऽपि मुक्तस्य प्रदेशचलनायोगात् विरोधो न । . Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy