________________
अध्यात्मतरंगिणी।
स्थान नैवोत्तरेषु प्रतिनिधिनिधिषु क्लीवयोषिजनानां ।
दौश्चित्यस्याविशेषे यदपि न नरवच्छ्रभ्रमुच्चैर्भजते' ॥ २९ ॥ पौष्पी वृष्टिः प्रभाणां वलयमसदृशं दुंदुभीनां निनाद
स्त्रीणि छत्राण्यशोको द्युतरुरुभयतश्चामराणां प्रचारः। उक्तिश्चित्राभिधेये हरिभिरभिधृतं पीठमत्यद्भुतार्था
लक्ष्मीरन्याऽपि शक्रः परिचरति मुदा देवसाम्राज्यमेतत् ॥३०॥ ध्येयं स्मार्य न किंचिद्भगवति निखिलाध्यक्षपक्षावसेये
तत्रैतयानमीहाऽसमकलुषतयाँ तत्समत्वार्य याऽपि । तत्साम्ये तव्यपायांवहसमयसमावेक्षणा वा मनीषा
नो चेदात्मप्रदेशव्यसनसमसनारंभणो वा प्रयत्नः ॥ ३१ ॥ आयुष्यंतर्मुहूर्ते सति समयचतुष्कावधावेव काले
कृत्वा दंडं कपाटं प्रतरमथ जगत्पूरणं चाप्यसौ स्वम् । संक्षिप्याघातिकर्माहितसदृशदृशः पूर्वदेहप्रमाणः सूक्ष्मैकांगोऽन्ययोगप्रविगमकरणात्स्यात्सयोगी तृतीये ॥३२॥
१ पापचित्तस्य विशेषाभावेऽपि सप्तमं नरकं न यांतीति भावः । २ सार्द्धद्वादशकोटिवाद्यानां । ३ अत्र छदस्येकमात्रान्यूनत्वं “म्रनर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्" इत्युक्तस्रग्धरालक्षणत्वात् 'छत्राणि त्रीण्यशोको' इति पाठान वृत्तदोषः। ४ वाणी । ५ मतल्लिका । ६ ज्ञातव्ये । ७ विषमस्थितिकर्मतया। ८ अघातिकर्मणां समस्थितिं कर्तुं । ९ विश्लेषः। १० आत्मा जीवस्तस्य प्रदेशा जीवसंश्लेषस्वभावनामगोत्रवेदनीयपरिणामास्तेषां व्यसनं दंडादिरूपतया क्षेपणं समसनं लोकप्रतररूपेणारोपणं तयोरारंभणं यत्नः, न हि शुद्धनिश्चयनयापेक्षया ज्ञानानंदाद्यनेका स्वभावस्य परमात्मनो ध्यानरूपताऽस्ति परं प्रामाणिकैः प्रत्यक्षादिप्रमाणैः परमात्मनि तथा तथा स्वाभाविकी परिणति परिच्छेद्य तद्धयानोपचारोपदेशः कृत इति तात्पर्यम् । ११ विनाश ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org