Book Title: Tattvanushasanadi Sangraha
Author(s): Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
१३८
श्रीचंद्रकृता
अथ श्रीचंद्रकृता वैराग्यमणिमाला ।
चिंतय परमात्मानं देवं योगिसमूहैः कृतपदसेवं ।
संसारार्णववरजलयानं केवलबोधसुधारसपानं ॥ १ ॥ जीव जंहीहि धनादिकतृष्णां मुंच ममत्वं लेश्यां कृष्णां । धर चारित्रं पालय शीलं सिद्धिवधूक्रीडावरलीलं ॥ २ ॥ अधुवमिदमालय शरीरं जननीजनकधनादि सदारं । वांछां कुरुषे जीव नितांतं किं न हि पश्यसि मूढं कृतांत ॥३॥ बाल्ये वयसि क्रीडासक्तस्तारुण्ये सति रमणीरक्तः । वृद्धत्वेऽपि धनाशाकष्टस्त्वं भवसीह नितांतं दुष्टः ॥ ४ ॥ का ते आशा यौवनविषये अध्रुवजल बुद्बुदसमकाये । मृत्त्वा यास्यसि निरयनिवासं न ज॑हसि तदपि धनाशापाशं ५ भ्रातर्मे वचनं कुरु सारं चेत्त्वं वांछसि संसृतिपारं । मोहं त्यक्त्वा कामं क्रोधं त्यज भज त्वं संयमवरबोधं ॥६॥ का ते कांता कस्तव तनयः संसारोऽपि च दुःखमयो यः। पूर्वभवे त्वं कीहरभूतः पापानवकर्मभिरभिभूतः ॥७॥ शरणमशरणं भावय सततमर्थमनर्थ चिंतय नियतं । नश्वरकायपराक्रमीवत्त वांछां कुरुषे तस्य हि चित्ते ॥ ८ ॥ एको नरके याति वराकः स्वर्गे गच्छति शुभसविवेकः । राजाप्येकः स्याञ्च धनेशः एकः स्यादविवेको दासः ॥ ९ ॥ १ तरणिः २ त्यज ३ नश्वरं ४ जानीहि ५ यमम् । ६ स्त्रीरतः ७ नरकस्थानं ८ त्यजसि ९ तिरस्कृतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186