Book Title: Tattvanushasanadi Sangraha
Author(s): Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 137
________________ १२८ श्रीविद्यानंदिकृतं परैरिति- हे अनघ ! घातिकर्मलक्षणपापरहित! परैर्वैशेषिकादिभिर्व्यघोषि प्रतिपादिता । काऽसौ, निवृत्तिर्मुक्तिः। किं तत्, स्वगुणतत्त्वविध्वंसनं स्वस्यात्मनो गुणा नव बुद्ध्यादयो तेषां तत्त्वं स्वरूपं तस्य विध्वंसनं निर्मूलच्छेदः, नैयायिकवैशेषिकैर्मुक्तिः कथिता, यदि वा गुणाश्च तत्त्वं च गुणतत्त्वानि स्वस्य गुणतत्त्वानि स्वगुणतत्त्वानि तेषां विध्वंसनं यौगैर्मुक्तिरुक्ता । स्वतत्त्वविध्वंसनं तु प्रदीपनिर्वाणवद्वौद्धैरिति । तथा कपिलादिभिश्च पुरुषार्थविभ्रंशनं निर्वृतिय॑घोषीति सम्बन्धः । कपिल आदिर्येषां तैः, आदिशद्वाद्ब्रह्मायद्वैतवादिपरिग्रहस्तैः पुरुषार्थविभ्रंशनं निर्वृतिरघोषीति सम्बन्धः । पुरुषार्थः सुखादिप्रयोजनं यदि वा पुरुषार्थो धर्मार्थकामलक्षणस्तस्य विभ्रंशनमात्मन्यभावः सुखा. देर्धर्मादेश्च प्रकृतिस्वरूपत्वात्, शुद्धचैतन्यमात्रस्वभावत्वाच्चात्मनस्तदेतत्सर्वमनुपपन्नज्ञानादिदोषदुष्टैरुक्तत्वात् । भगवता किंस्वरूपा मुक्तिरुक्तेत्याह त्वयेत्यादि ना-त्वया जिनेन्द्रेण व्यघोषि निर्वृतिः। किं, सुखं । कथंभूतं, अनंतमन्तरहितं पुनरपि कथंभूतमव्याहतं दुःखादिभिरविहन्यमानं । पुनरपि किं विशिष्टं, ध्रुवं नित्यं, भूयोऽपि किं विशिष्टं, निरुपमात्मकं उपमायाः सादृश्यान्निष्क्रान्त आत्मा स्वभावो यस्य तत् । कथंभूतेन त्वया, सुमृदितैनसा सष्ठु मृदितं ध्वस्तमेनो घातिकर्मचतुष्टयं येनाऽसौ तथोक्तस्तेन । पुनरपि कथंभूतेन,ज्वलितकेवलौ घश्रिया केवलस्यौघो विच्छिन्नरूपसंततिप्रवाहस्तस्य श्रीर्यथावदर्थप्रकाशकत्वं ज्वलिता दीपिता केवलौघश्रीर्यस्य । केवलोद्याश्रियेति च पाठः केवले सति उद्या महती श्रीरन्तरङ्गबहिरंगा लक्ष्मीर्यस्य तेनेति ॥ ४७ ॥ परोप्सितस्वेप्सितमुक्तिस्वरूपं निरूपयन्नाह;निरन्वयविनश्वरी जगति मुक्तिरिष्टा परै र्न कश्चिदिह चेष्टते स्वव्यसनाय मूढेतरः । त्वयाऽनु गुणसंहतेरतिशयोपलब्ध्यात्मिका स्थितिः शिवमयी प्रवचने तव ख्यापिता ॥४८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186