________________
१२८
श्रीविद्यानंदिकृतं
परैरिति- हे अनघ ! घातिकर्मलक्षणपापरहित! परैर्वैशेषिकादिभिर्व्यघोषि प्रतिपादिता । काऽसौ, निवृत्तिर्मुक्तिः। किं तत्, स्वगुणतत्त्वविध्वंसनं स्वस्यात्मनो गुणा नव बुद्ध्यादयो तेषां तत्त्वं स्वरूपं तस्य विध्वंसनं निर्मूलच्छेदः, नैयायिकवैशेषिकैर्मुक्तिः कथिता, यदि वा गुणाश्च तत्त्वं च गुणतत्त्वानि स्वस्य गुणतत्त्वानि स्वगुणतत्त्वानि तेषां विध्वंसनं यौगैर्मुक्तिरुक्ता । स्वतत्त्वविध्वंसनं तु प्रदीपनिर्वाणवद्वौद्धैरिति । तथा कपिलादिभिश्च पुरुषार्थविभ्रंशनं निर्वृतिय॑घोषीति सम्बन्धः । कपिल आदिर्येषां तैः, आदिशद्वाद्ब्रह्मायद्वैतवादिपरिग्रहस्तैः पुरुषार्थविभ्रंशनं निर्वृतिरघोषीति सम्बन्धः । पुरुषार्थः सुखादिप्रयोजनं यदि वा पुरुषार्थो धर्मार्थकामलक्षणस्तस्य विभ्रंशनमात्मन्यभावः सुखा. देर्धर्मादेश्च प्रकृतिस्वरूपत्वात्, शुद्धचैतन्यमात्रस्वभावत्वाच्चात्मनस्तदेतत्सर्वमनुपपन्नज्ञानादिदोषदुष्टैरुक्तत्वात् । भगवता किंस्वरूपा मुक्तिरुक्तेत्याह त्वयेत्यादि ना-त्वया जिनेन्द्रेण व्यघोषि निर्वृतिः। किं, सुखं । कथंभूतं, अनंतमन्तरहितं पुनरपि कथंभूतमव्याहतं दुःखादिभिरविहन्यमानं । पुनरपि किं विशिष्टं, ध्रुवं नित्यं, भूयोऽपि किं विशिष्टं, निरुपमात्मकं उपमायाः सादृश्यान्निष्क्रान्त आत्मा स्वभावो यस्य तत् । कथंभूतेन त्वया, सुमृदितैनसा सष्ठु मृदितं ध्वस्तमेनो घातिकर्मचतुष्टयं येनाऽसौ तथोक्तस्तेन । पुनरपि कथंभूतेन,ज्वलितकेवलौ घश्रिया केवलस्यौघो विच्छिन्नरूपसंततिप्रवाहस्तस्य श्रीर्यथावदर्थप्रकाशकत्वं ज्वलिता दीपिता केवलौघश्रीर्यस्य । केवलोद्याश्रियेति च पाठः केवले सति उद्या महती श्रीरन्तरङ्गबहिरंगा लक्ष्मीर्यस्य तेनेति ॥ ४७ ॥ परोप्सितस्वेप्सितमुक्तिस्वरूपं निरूपयन्नाह;निरन्वयविनश्वरी जगति मुक्तिरिष्टा परै
र्न कश्चिदिह चेष्टते स्वव्यसनाय मूढेतरः । त्वयाऽनु गुणसंहतेरतिशयोपलब्ध्यात्मिका
स्थितिः शिवमयी प्रवचने तव ख्यापिता ॥४८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org