SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ पात्रकेसरिस्तोत्रम् । १२७ ननु पृथिव्यादौ नियमेन जन्तुसम्मूर्च्छनभवात्कथमशनपानादौ प्रवर्त्तमानानां यथागमविहारिणामप्येषामहिंसकत्वं स्यादित्याशंकां निराकुर्वन्नाह,मरुज्ज्वलनभूपयःसु नियमाक्वचिद्युज्यते परस्परविरोधितेषु विगतासुता सर्वदा। प्रमादजनितागसो क्वचिदपोहनं स्वागमा कथं स्थितिभुजां सतां गगनवाससां दोषिता ॥ ४६॥ मरुदिति-- मरुद्वायुज्वलनोनिर्भूः पृथ्वी पयः पानीयं तेषु कचित्केषुचित् नियमावश्यंभावात् युज्यते घटते । काऽसौ विगतासुता, रहितप्राणित्वं । किंविशिष्टेषु, परस्परविरोधितेषु परस्परमन्योन्यं विरोधितषु किन्तु कदाचिदेव तथाविधेषु तेषु विगतासुता प्रयुज्यत इत्याह सदेत्यादिना- सदा सर्वस्मिनपि काले विध्वस्तेषु तेषु गतासुतैव युज्यते; ननु यदा तेषां कदाचित्प्रमादतः प्राणिपीड़ादिप्रभवं पापं भवति तदा कुतोऽपि विशुद्धिः स्यादित्याह प्रमादेत्यादिना-प्रमादेन जनितमागः प्राणिपीडादिप्रभवं पापं येषां तेषामपि तदपोहनं तस्य पापस्य शोधनं । कुतः, स्वागमात् स्वकीयः शोभनो वाऽऽगमः स्वागमस्तस्मात् तेन हि दोषानुरूपप्रायश्चित्तनिरूपणद्वारेणात्मनो विशुद्धिर्विधीयते ततः कथं स्थितिभुजां अनिमंत्रितानाकारिभुजां अनिमंत्रितानाकारिता यथाकालं स्थितौ स्थापने उद्गमादिदोषरहितमाहारं उद्भा. भुंजत इत्येवंशीलास्तेषां सतो विद्यमानानां सम्यग्दर्शनाद्युपेततया प्रशस्तानां वा गगनवाससां निर्ग्रन्थानां दोषिता दोषाः हिंसादिलक्षणाः सन्ति येषान्ते दोषिणस्तेषां भावस्तत्तेति ॥ ४६॥ __ मोक्षार्थो हि प्रेक्षावतां प्रयासो मोक्षश्च परमते भवन्मते च कीदृश इत्याहा परैरनघ निर्वृतिः स्वगुणतत्त्वविध्वंसनं व्यघोषि कपिलादिभिश्च पुरुषार्थविभ्रंशनं । त्वया सुमृदितैनसा ज्वलितकेवलौघश्रिया ध्रुवं निरुपमात्मकं सुखमनन्तमव्याहतम् ॥४७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy