________________
१२६
श्रीविद्यानंदिकृतं
कथा अनु तथैव विधात मष्टं वृत्तं चारित्रगान ते प्रमादरहिता
"पथजं कर्म यद्यपि तेषां समायातं तथाऽपि न बंधस्थित्यनुभागरूपमुपैति शुष्ककुड्यपतितसिकतावत् । अतः प्रकृतिप्रदेशरूपतया बद्धमपि कर्म न फलप्रदं ततो म बन्धफलभागिनस्त इत्येवं गम्यते निश्चीयते । केन कारणेन ते न तद्भागिन इत्याह येनेत्यादिना- येन कारणेन ते प्रमादरहिताशयाः दिगम्बराः प्रवृत्तमनु बिभ्रति प्रकृष्टं वृत्तं चारित्रं चिरन्तनमहर्षयो यथा धृतवन्तः अनु तथैव बिभ्रति धारयन्ति अद्याप्यधुनाऽपि कलिकालेऽपि । कथंभूतं प्रवृत्तं, स्वबलयोग्यं स्वस्य बलं तस्य योग्यं निजवीर्यानुरूपं वीर्यस्याविनिग्रहेणेत्यर्थ इति ॥ ४४ ॥
प्रमादरहिताशयानामप्येषां कथंचित्प्राणिपीडनमात्राभ्युपगमे दोष दर्शयन्नाह;
यथागमविहारिणामशनपानभक्ष्यादिषु
प्रयत्नपरचेतसामविकलेन्द्रियालोकिनाम् । कथंचिदसुपीडनाद्यदि भवेदपुण्योदय
स्तपोऽपि वध एव ते स्वपरजीवसंतापनात् ॥४५॥ यथागमेति- यथागमेनागमप्रतिपादितविध्यनतिक्रमेण विह तीर्थवन्दनाधर्थ पर्यटितुं शीलं येषां तेषां अशनमन्नं पानं पेयं भक्ष्यं लङ्कानि तान्यादिर्येषां शयनाशनादीनां तेषु प्रयत्नपरचेतसां । पुनरपि कथंभूतानां, अविकलेन्द्रियालोकिनां अविकलं सूक्ष्मार्थदर्शने समर्थ इन्द्रियं चक्षुस्तेनाऽऽलोफितुं द्रष्टुं शीलं येषां तेषां, कथंचिदसुपीडनात् यदि भवेदपुण्योदयः पापप्रादुर्भावः तपोऽपि द्वादशप्रकारं ते तव वध एव हिंसैव प्रामोति । कुतः, स्वपरजीवसंतापनात् षष्ठ्याद्युपवासविधाने हि साधारणशरीररूपत्वात् तदनुष्ठायिनामिव तदाश्रितजीवानामपि पीडा भवतीति । यदि वा परशब्देन शिष्या ग्रह्यन्ते तेषां सन्मार्गानुष्ठापनेन पीडामुपजनयन्तोऽप्याचार्याः पापकर्मभाजो न भवन्त्यातुरस्य वमनविरेचनाद्यनुष्ठापनेन सद्यवत् हितं चिकीर्षुणां तेषां संसारव्याधिविनाशहेतुतया विशुद्धाशयत्वादिति ॥४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org