SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ पात्रकेसरिस्तोत्रम् । निरन्वयेति-निरन्वयेण विनश्वरी विनशनशीला परैरन्यैर्जगति संसारे मुक्तिर्मोक्ष इष्टोक्ता, अमुमेवार्थ अर्थान्तरन्यासेन दृढयन्नाह न कश्चिदित्यादिना--इह जगत्यां कश्चित् कोऽपि मूढेतरः पण्डितः स्वव्यसनाय स्वदुःखप्राप्त्यै चेष्टतेन चेष्टांन कुरुते, मूर्यो हि स्वदुःखप्राप्त्यै चेष्टां कुरुते पण्डितस्तु कदापि नेति भावः । अन्यजनेतरैर्मुक्तिस्वरूपमन्यथा प्रकल्प्य स्वदुःखायैव चेचा विहितेत्यभिप्रायः । हे जिन ! त्वया गुणसंहतेरनु सम्यक्त्वदर्शनाद्यष्टगुणसहिता अतिशयोपलब्ध्यात्मिका चतुस्त्रिंशदतिशयानामुपलब्धिः प्राप्तिरेवात्मा यस्या अतिशयोपलब्ध्यात्मिकैव तत्र स्थितिरवस्थानं । पुनश्च कथंभता, शिवमयी कल्याणमयी सुखमयीत्यर्थः यत्र कदाचिदपि न क्लेशलेश इति भावः । एवंभूता तव जिनेन्द्रस्य प्रवचन आगमे ख्यापिता प्रसिद्धति ॥४८॥ एतस्या जिनेन्द्रगुणसंस्तुतेः माहात्म्यं दर्शयन्नाह;इयत्यपि गुणस्तुतिः परमनिर्वृतेः साधनी भवत्यलमतो जनो व्यवसितश्च तत्काङ्क्षया । विरंस्यति च साधुना रुचिरलोभलाभे सतां मनोऽभिलषिताप्तिरेव ननु च प्रयासावधिः ॥ ४९॥ __इयत्यपीति- गुणानां स्तुतिः स्तवनं गुणस्तुतिः स्तुतिर्माहात्मस्याऽऽधिक्येन कथनमित्यपि गुणस्तुतिः परमनिवृतेरुत्कृष्टसुखस्य साधनी कारिणी तत्कांक्षया परमसुखवाञ्च्या व्यवसित उद्यतो जनोऽत: इयत्या अपि गुणस्तुतेरलं भवति कार्यकारी भवति । अनया च किं भविष्यतीत्याहअलोभलाभेऽलोभेन लाभे प्राप्ते सति सा परमनिर्वृत्तिर्लब्धिर्वाञ्छात्मिका रुचिः प्रीतिरधुनाऽस्मिन्समये विस्यति विराममवसानं प्राप्स्यति, “ रमु क्रीडायां धातोरात्मनेपदेऽपि 'व्याङ्परिभ्यो रमः' इति व्याकरण सूत्रेण व्युपसर्गत्वात्परस्मैपदं” अत्रैवार्थान्तरन्यासमाह;-ननु निश्चयेन सतां सत्पुरुषाणां प्रयासावधिः परिश्रमावधिः मनोऽभिलषिताऽऽप्तिरेव चित्तवा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy