________________
श्रीविद्यानंदिकृतं
ञ्छितप्राप्तिरेव; यावन्मनोऽभिलाषताऽनाप्तिस्तावदेव सद्भिः प्रयासो विधीयते प्राप्तेः पश्चान्नेति ॥ ४९ ॥ अपरञ्च;-- इति मम मतिवृत्या संहतिं त्वद्गुणाना
मनिशममितशक्तिं संस्तुवानस्य भक्त्या। सुखमनघमनंतं स्वात्मसंस्थं महात्मन् !
जिन ! भवतु महत्या केवल श्रीविभूत्या ॥ ५० ॥ इतीति-हे महात्मन् जिन ! इति पूर्वोक्तप्रकारेण मतिवृत्त्याऽनिशं निरन्तरं, संस्तुवानस्य स्तुतिं कुर्वतः । कां, त्वद्गुणानां तावकीनगुणानां संहति समूहं । कथंभूतां, अमितशक्तिं अमिता परिमाणरहिता शक्तिर्बलं यस्यां सा तां । कया कृत्वा, भक्त्या भक्तिपुरःस्सरं मम मे भवतु अस्तु । किं, सुखं । कथंभूतमनघमनवा । पुनः कथंभूतं, अनन्तमवसानरहितं यस्य सुखस्य कदाप्यवसानं नेति भावः, । पुनः कथंभूतं, स्वात्मसंस्थं स्वस्याऽऽत्मा स्वात्मा तस्मिन् संस्थं सम्यक् स्थितं निजात्मस्वरूपं । कया सह भवतु, केक्लश्रीविभूत्या केवलस्य श्रीःशोभा लक्ष्मीरतिशयादिप्राप्तिः सैव विभूतिः संपत्तया । कथंभूतया, महत्या । अत्र श्लोके मालिनीवृत्तं । तल्लक्षणं यथा “ ननमयययुतेयं मालिनी सुप्रसिद्धा" इति ॥ ५० ॥ इति श्रीनिखिलतार्किकचूडामणि विद्यानंदिस्वामिप्रणीतं बृहत्पंचनमस्कारस्तोत्रापरनामधेयं पात्रकेसरिस्तोत्रं
समाप्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org