________________
श्रीवादिराजविरचितं-अध्यात्माष्टकम् ।
१३१
॥ श्रीः ॥ अथ वादिराजविरचितं
अध्यात्माष्टकम् विभावाद्यभावात्स्वभावं वहतं, सुबोधिप्रकर्षादबोधं दहन्तम् । नयातीतरूपं नयाम्भोधिचन्द्र, भजेहं जगजीवनं श्रीजिनेन्द्रम् १ दयादेयभावादनादेयदूरं गुणानामभावाद्गुणाम्भोधिपूरम् । सुचारित्रचर्येक्षणादावनिन्द्रम्, भजेहं... ॥२॥ शुभं वाशुभं कर्म चैकं समस्तं, नयनिश्चितं बंधबीजं निरस्तम् । स्वभावाप्तिरस्य स्वयं चाप्यतन्द्रं, भजेहं.... ॥ ३॥ द्वयं चाद्वयं वस्त्वनित्यं च नित्यं त्रिधा लभ्यमेतत्त्ववक्तव्यचिन्त्यम्। लसत्सप्तभङ्गोर्मिमालासमुद्रं, भजेहं... ॥४॥ कुतस्त्यो विरोधादिदोषावकाशो ध्वनिः स्यादिति स्यादहो यत्प्रकाशः । इतीत्थं वदन्तं प्रमाणादरिद्रं, भजेहं... ॥५॥ प्रमाणं यतो द्वादशाङ्गाख्यशास्त्रं, सुवक्तृत्वतो धर्मकर्मादि पात्रम् । फलं वा तपोद्रोरभूद्भव्यभद्रं, भजेहं... ॥६॥ उपादानहाने फलं चाप्युपेक्षा परैरन्यथावादिमाने सुशिक्षा । तदाभा सहक्त्वाच्च तेषामभद्रं, भजेहं .. ॥७॥ अतुल्या अनन्ता गुणास्तावकीनाः सदोषा सतुच्छा मतिर्मामकीना पदं प्राप्यमेतावतैवाहमिंद्रं, भजेहं... ॥ ८॥ वार्धाराद्यर्हणा ते समगतिसुखदा तुष्टिपुष्टयादिकी दिव्या वागागमोत्था श्रुतिसरणिगतानंतमिथ्यात्वहीं। रागद्वेषादिमुक्तो मुनिरिह विदितः शुद्धबोधाशयालुजन्मांहोवारणाकं स्तवमिममसृजद्वादिराजो दयालुः ॥ ९॥
इति श्रीवादिराजविरचितमध्यात्माष्टकस्तोत्रम् ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org