________________
१३२
श्रीअमितगतिसूरिविरचिता
श्रीअमितगतिसूरिविरचिता द्वात्रिंशतिका ।
सत्वेषु मैत्रीं गुणिषु प्रमोदं क्लिष्टेषु जीवेषु कृपापरत्वम् । मध्यस्थभावं विपरीतवृत्तौ
सदा ममात्मा विधातु देव ॥ १ ॥ शरीरतः कर्त्तमनन्तशक्तिं
विभिन्नमात्मानमपास्तदोषम् ।
जिनेन्द्र कोषादिव खड्गयष्टिं
तव प्रसादेन ममास्तु शक्तिः ॥ २ ॥ दुःखे सुखे वैरिणि बन्धुवर्गे
योगे वियोगे भुवने वने वा । निराकृताशेषममत्वबुद्धेः
समं मनो मेऽस्तु सदापि नाथ ॥ ३ ॥ मुनीश ! लीनाविव कीलिताविव
स्थिरौ निपाताविव बिम्बिताविव । पादौ त्वदीयौ मम तिष्ठतां सदा
तमोधुनानौ हृदि दीपकाविव ॥ ४ ॥ एकेन्द्रियाद्या यदि देव देहिनः,
प्रमादतः संचरता इतस्ततः । क्षता विभिन्ना मिलिता निपीडिता, तदस्तु मिथ्या दुरनुष्ठितं तदा ॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org