________________
द्वात्रिंशतिका।
विमुक्तिमार्गप्रतिकूलवर्तिना
मया कषायाक्षवशेन दुर्धिया। चारित्रशुद्धेर्यदकारि लोपनं
तदस्तु मिथ्या मम दुष्कृतं प्रभो ॥६॥ विनिन्दनालोचनगर्हणैरहं
मनोवचःकायकषायनिर्मितम् । निहन्मि पापं भवदुःखकारणं
भिषग्विषं मन्त्रगुणैरिवाखिलम् ॥ ७ ॥ अतिक्रमं यद्विमतेर्व्यतिक्रम
जिनातिचारं सुचरित्रकर्मणः व्यधामनाचारमपि प्रमादतः
प्रतिक्रमं तस्य करोमि शुद्धये ॥ ८॥ क्षतिं मनःशुद्धिविधेरतिक्रम
व्यतिक्रमं शीलवृतेर्विलंघनम् । प्रभोऽतिचारं विषयेषु वर्तनं
वदन्त्यनाचारमिहातिसक्तताम् ॥ ९ ॥ यदर्थमात्रापदवाक्यहीनं
मया प्रमादाद्यदि किश्चनोक्तम् । तन्मे क्षमित्वा विदधातु देवी
सरस्वती केवलबोधलब्धिम् ॥ १० ॥ बोधिः समाधिः परिणामशुद्धिः
स्वात्मोपलब्धिः शिवसौख्यसिद्धिः। चिन्तामणिं चिन्तितवस्तुदाने
त्वां वंद्यमानस्य ममास्तु देवि ॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org