Book Title: Tattvanushasanadi Sangraha
Author(s): Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
पात्रकेसरिस्तोत्रम् |
अत्रैव दूषणान्तरमुपदर्शयन्नाह; -- स्वभाजनगतेषु पेयपरिभोज्यवस्तुब्वमी यदा प्रतिनिरीक्षितास्तनुभृतः सुसूक्ष्मात्मिकाः । तदा कचिदपोज्झने मरणमेव तेषां भवेदथाऽप्यभिनिरोधनं बहुतरात्मसंमूर्च्छनम् ॥ ४३ ॥ स्वभाजनेति --- स्वस्य भाजनानि तेषु गतेषु स्थितेषु । केषु, पेयपरिभोज्यवस्तुषु पेयानि पानकानि परिभोज्यानि मोदकादीनि पेयपरिभोज्यानि च तानि वस्तूनि च तेष्वमी तनुभृतो यदा प्रतिनिरीक्षिता दृष्टाः । कथंभूताः, सुसूक्ष्मात्मिकाः क्षुद्रजन्तवस्तदा ते किं ततो बहिः क्षिप्यन्ते न वा ? याद क्षिप्यन्ते तदा मरणमेव तेषां भवेत् कचिदपोज्झनेऽपनयनेऽथाप्यभिनिरोधनं अथाऽपि पुनरपि अभिनिरोधनं पात्रवस्त्रादिभ्यस्तेषामपनयनं तर्हि बहुतरात्मसंमूर्च्छनं बहुतराणामात्मनां क्षुद्रजन्तूनां संमूर्च्छनं जन्म भवेदिति ॥ ४३ ॥
नन्वेवं निग्रन्थसंयतानुष्ठायिनामपर्यापथिकादौ बहुतरहिंसासंभवात् प्रचुरतः कर्मोपार्जनान्मुक्तिर्न प्राप्नोतीत्याशंकां निराकुर्वन्नाह; - दिगम्बरतया स्थिताः स्वभुजभोजिनो ये सदा प्रमादरहिताशयाः प्रचुरजीवहत्यामपि । न बन्धफलभागिनस्त इति गम्यते येन ते प्रवृत्तमनुबिभ्रति स्वबलयोग्यमद्याप्यमी ॥ ४४ ॥ दिगम्बरतयेति - दिश एवांबराणि तनुपटकवस्त्रादीनि परिधानप्रावरणवस्त्राणि येषां तेषां भावस्तत्ता तया स्थिताः प्रतिपन्ननिग्रंथस्वरूपा इत्यर्थः । कथंभूताः, स्वभुजभोजिनो ये सदा स्वभुजयोरेव न पात्रादौ भोक्तुं शीलं येषान्ते पाणिपात्रपुटाहारास्ते सर्वदेत्यर्थः । पुनरपि कथंभूताः प्रमादरहिताशयाः सदेत्येतदत्राप्यभिसंबध्यते सदा प्रमादेन पंचदशप्रकारेण रहित आशयो मनो येषान्ते तथाभूताः सन्तः न बंधफलभागिनः, ईर्या
Jain Education International
१२५
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/428ee2b0a48882aa3b253e29ec2d31285c22d03c7aa3ac97cfb4ac41d8aa42e5.jpg)
Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186