________________
ऽध्यायः] नद्यादिषुमूत्रपुरीषोत्सर्ग, शौचमृत्तिकाप्रमाणव० १४८५
सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः। श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ॥८ आहारनिर्हारविहारयोगाः सुसंवृता धर्मविदा तु कार्याः । वाग्बुद्धिकार्याणि तपस्तथैव धनायुषी गुप्ततमे तु कार्ये ॥8 उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ मुखः। रात्रौ कुर्यादक्षिणास्य एवं ह्यायुर्न हीयते ॥१० प्रत्यग्निं प्रति सूर्य च प्रति गां प्रति च द्विजम् । प्रति सोमोदकं संध्यां प्रज्ञा नश्यति मेहतः ॥११ न नयां मेहनं कार्य न भस्मनि न गोमये । न वा कृष्टे न मार्गे च नोप्त क्षेत्रे न शावले ॥१२ छायायामन्धकारे वा रात्रावहनि वा द्विजः । यथासुखमुखः कुर्यात्प्राणवाधाभयेषु च ॥१३ उद्धृताभिरद्भिः कार्य कुर्यात्स्नानमनुधृताभिरपि ॥१४ आहरेन्मृत्तिकां विप्रः कूलात्ससिकतां तथा। अन्तर्जले देवगृहे वल्मीके मूषकस्थले । कृतशौचावशिष्टा च न ग्राह्याः पञ्च मृत्तिकाः॥१५ एका लिङ्ग करे तिस्र उभाभ्यां वे तु मृत्तिके। पञ्चापाने दशैकस्मिन्नुभयोः सप्त मृत्तिकाः ॥१६ एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः । वानप्रस्थस्य त्रिगुणं यतीनां च चतुर्गुणम् ॥१७ अष्टौ ग्रासा मुनेभक्तं वानप्रस्थस्य षोडश । द्वात्रिंशत्तु गृहस्थस्य अमितं ब्रह्मचारिणः ॥१८