Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 730
________________ ऽध्यायः] विवाहात्माक् कन्यायारजोदर्शने दोषनिरूपणम् १८६५ त्रीणि वर्षाण्यूतुमती यः कन्यां न प्रयच्छति । स तुल्यं भ्रूणहत्यायै दोषच्छत्यसंशयम् ॥१३ न याचते चेदेवं स्याद्याचते चेत्पृथक्पृथक् । एकैकस्मिन्नृतौ दोषं पातकं मनुरब्रवीत् ॥१४ त्रीणि वर्षाण्यतुमती काक्षेत पित्शासनम् । ततश्चतुर्थे वर्षे तु विन्देत सदृशं पतिम् । अविद्यमाने सहशे गुणहीनमपि अयेत् ॥१५ पलाञ्चेत्प्रहृता कन्या मन्त्रैर्यदि न संस्कृता । अन्यस्मै विधिवहया यथा कन्या तथैव सा ।।१६ निसृष्टायां हुते वाऽपि यस्यै भर्ता म्रियेत सः। सा चेदक्षतयोनिः स्याद्गतप्रत्यागता सती ॥१७ पौनर्भवेन विधिना पुनः संस्कारमहति ॥१८ त्रीणि वर्षाण्यतुमती यो भार्या नाधिगच्छति । स तुल्यं भ्रूणहत्यायै दोषमृच्छत्यसंशयम् ॥१६ भूतुस्नातां तु यो भार्या संनिधौ नोपगच्छति । पितरस्तस्य तन्मासं तस्मिन्रजसि शेरते ॥२० मृतौ नोपैति यो भार्यामनृतौ यश्च गच्छति । तुल्यमाहुस्तयोर्दोषमयोनौ यश्च सिञ्चति ॥२१ . भर्तुः प्रतिनिवेशेन या भार्या स्कन्दयेहतुम् । तां ग्राममध्ये विख्याप्य भ्रूणध्नी निर्धमेद्गृहात् ।।२२ ऋतुस्नातां न चेद्गच्छेन्नियतां धर्मचारिणीम् । नियमातिक्रमे तस्य प्राणायामशतं स्मृतम् ॥२३

Loading...

Page Navigation
1 ... 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744