Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
१८६६
बौधायनस्मृतिः।
[प्रथमोप्राणायामान्पवित्राणि व्याहृतीः प्रणवं तथा । पवित्रपाणिरासीनो ब्रह्म नैत्य मभ्यसेत् ।।२४ आवर्तयेत्सदा युक्तः प्राणायामान्पुनः पुनः । आ केशान्तान्नखाग्राञ्च तपस्तप्यत उत्तमम् ॥२५ निरोधाज्जायते वायुयोरग्निश्च जायते । तापेनाऽऽपोऽधिजायन्ते ततोऽन्तः शुध्यते त्रिभिः ॥२६ योगेनावाप्यते ज्ञानं योगो धर्मस्य लक्षणम् । योगमूला गुणाः सर्वे तस्माद्युक्तः सदा भवेत् ॥२७ प्रणवाद्यास्तथा वेदाः प्रणवे पर्यवस्थिताः । प्रणवो व्याहृतयश्चैव नित्यं ब्रह्म सनातनम् ।।२८ प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु । त्रिपदायां च गायच्यां न भयं विद्यते कचित् ।।२६ सव्याहृतिको सप्रणवां गायत्री शिरसा सह । त्रिः पठेदायत प्राणः प्राणायामः स उच्यते ॥३० सव्याहृतिकाः सप्रणवाः प्राणायामास्तु षोडश । अपि भ्रूणहनं मासात्युनन्स्यहरहधूताः ॥३१ एतदाधं तपः श्रेष्ठमेतद्धर्मस्य लक्षणम् । सर्वदोषोपघातार्थमेतदेव विशिष्यत एतदेव विशिष्यत इति ॥३२
इति चतुर्थप्रश्ने प्रथमोऽध्यायः ।

Page Navigation
1 ... 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744