Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
ऽध्यायः] प्रायश्चित्तविधिवर्णनम् । १८६७
अथ चतुर्थपश्ने द्वितीयोऽध्यायः ।
अथ प्रायश्चित्तविधिवर्णनम् । प्रायश्चित्तानि वक्ष्यामो नानार्थानि पृथक्पृथक् । तेषु तेषु च दोषेषु गरीयांसि लघूनि च ॥१ यद्यत्र हि भवेद्युक्तं तद्धि तत्रैव निर्दिशेत् । भूयो भूयो गरीयःसु लघुष्वल्पीयसस्तथा (१) ॥२ विधिना शास्त्रोन प्रायश्चितानि निर्दिशेत् । प्रतिग्रहीष्यमाणस्तु प्रतिगृह्य तथैव च ॥३ ऋचस्तरत्समन्धस्तु चतस्रः परिवर्तयेत् । अभोज्यानां तु सर्वेषामभोज्यानस्य भोजने ॥४ ऋग्भिस्तरत्समन्दीयैर्मार्जनं पापशोधनम् । भ्रूणहत्याविधिस्त्वन्यस्तं तु वक्ष्याम्यतः परम् ॥५ विधिना येन मुच्यन्ते पातकेभ्योऽपि सर्वशः॥६ प्रणायामान्पवित्राणि व्याहृतीः प्रणवं तथा । जपेदघमर्षणं सूक्तं पयसा द्वादश क्षपाः ॥७ . त्रिरात्रं वायुभक्षो वा क्लिन्नवासाः प्लुतः शुचिः। प्रतिषिद्धांस्तथाऽऽचारानभ्यस्यापि पुनः पुनः ॥८ वारुणीभिरुपस्थाय सर्वपापैः प्रमुच्यत इति 18 अथावकीर्ण्यमावास्यायां निश्यग्निमुपसमाधाय दाविहोमिकी परिचेष्टां कृत्वा द्वे आज्याहुती जहोति ॥१० कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा कामाभिदुग्धोऽस्मि कामकामाय स्वाहेति ॥११

Page Navigation
1 ... 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744