Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
१८७४
बौधायनस्मृतिः। [पञ्चमोगोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । यवाचामेन संयुक्तो ब्रह्मकू!ऽतिपावनः ॥२६ अमावास्यां निराहारः पौर्णमास्यां तिलाशनः । शुक्लकुष्णकृतात्पापान्मुच्यतेऽब्दस्य पर्वभिः ॥२७ भक्षाहारोऽग्निहोत्रिभ्यो मासेनैकेन शुध्यति । यायावरवनस्थेभ्यो दशभिः पञ्चभिदिनैः ॥२८ एकाहधनिनोऽनेन दिनेनैकेन शुध्यति । कापोतवृत्तिनिष्ठस्य पीत्वाऽपः शुध्यते त्रिभिः ॥२६
मृग्यजुः सामवेदानां वेदस्यान्यतमस्य वा । पारायणं त्रिरभ्यस्येदनश्नन्सोऽतिपावनः ॥३० अथ चेत्त्वरते कर्तु दिवसे मारुताशनः । रात्रौ जले स्थितो व्युष्टः प्राजापत्येन तत्समम् ॥३१ गायत्र्यष्टसहस्रं तु जपं कृत्वोत्थिते रवौ। मुच्यते सर्वपापेभ्यो यदि न भ्रूणहा भवेत् ॥३२ योऽन्नदः सत्यवादी च भूतेषु कृपया स्थितः। पूर्वोक्तयन्त्रशुद्ध भ्यः सर्वेभ्यः सोऽतिरिच्यते ॥३३
अथ चतुर्थप्रश्ने पञ्चमोऽध्यायः।

Page Navigation
1 ... 737 738 739 740 741 742 743 744