Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
१८७३
ऽध्यायः] कृच्छ्रसांतपनादि व्रतविधिवर्णनम् ।
गोमूत्रं गोमयं चैव क्षीरं दधि घृतं तथा। पञ्चरात्रं तदाहारः पञ्चगव्येन शुध्यति ।।१५।। यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् । पराको नाम कृच्छ्रोऽयं सर्वपापप्रणाशनम् ।।१६ . गोमूत्रादिभिरभ्यस्तमेकैकं तं त्रिसप्तकम् । महासांतपनं कृच्छ्र वदन्ति ब्रह्मवादिनः॥१७ एकवृद्धथा सिते पिण्डानेकहान्याऽसिते ततः । पक्षयोरुपवासौ द्वौ तद्धि चान्द्रायणं स्मृतम्॥१८ चतुरः प्रातरश्नीयात्पिण्डान्विप्रः समाहितः। चतुरोऽस्तमिते सूर्य शिशुचान्द्रायणं चरेत् ॥१६ अष्टावष्टौ मासमेकं पिण्डान्मध्यं दिने स्थिते । नियतात्मा हविष्यस्य यतिचान्द्रायणं चरेत् ॥२० यथा कथंचित्पिण्डानां द्विजस्तिस्रस्त्वशीतयः। मासेनाश्नन्हविष्यस्य चन्द्रस्यति सलोकताम् ।।२१ यथोद्यश्चन्द्रमा हन्ति जगतस्तमसो भयम् । एवं पापाद्भयं हन्ति द्विजश्चान्द्रायणं चरन् ।।२२ कणपिण्याकतक्राणि यवाचामोऽनिलाशनः । एकत्रिपञ्च सप्तेति पापघ्नोऽयं तुलापुमान् ॥२३ यावकः सप्तरात्रेण वृजिनं हन्ति देहिनाम् । सप्तरात्रोपवासो वा दृष्टमेतन्मनीषिभिः ॥२४ पौषभाद्रपदज्येष्ठा आर्द्राकाशातपाश्रयात् । त्रीञ्छुक्लान्मुच्यते पापात्पतनीयाहते द्विजः ।।२५

Page Navigation
1 ... 736 737 738 739 740 741 742 743 744