Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 740
________________ ऽध्यायः] मृगारेष्टिः पवित्रेष्टिश्चवर्णनम् । १८७५ अथ चतुर्थप्रश्ने षष्ठोऽध्यायः । अथ मृगारेष्टिः पवित्रेष्टिश्च वर्णनम् । समाधुच्छन्दसा रुद्रा गायत्री प्रणवान्विता । सप्त व्याहृतश्चैव जप्याः पापविनाशनाः॥१ मृगारेष्टिः पवित्रेष्टिविहविः पावमान्यपि ॥२ इष्टयः पापनाशिन्यो वैश्वानर्या समन्विताः। इदं चैवापरं गुह्यमुच्यमानं निबोधत ॥३ मुच्यते सर्वपापेभ्यो महतः पातकाहते। पवित्रैर्मार्जनं कुर्वन्रुद्रैकादशिको जपन ॥४ पावित्राणि घृतैर्जुहन्प्रयच्छन्हेमगोतिलान् । योऽश्नीयाद्यावकं पक्कं गोमूत्रे सशकृद्रसे। सदधिक्षीरसर्पिष्के मुच्यते सोऽहसः क्षणात् ॥५ प्रसूतो यश्च शूद्रायां येनागम्या च लचिता । सप्तरात्रात्प्रमुच्येते विधिनतेन तावुभौ ॥६ रेतोमूत्रपुरीषाणां प्राशनेऽभोज्यभोजने। ' पर्याधानेज्ययोरेतत्परिवित्ते च भेषजम् ।।७ अपातकानि कर्माणिं कृत्वैव सुबहून्यपि । मुच्यते सर्वपापेभ्य इत्येतद्वचनं स ताम् ।।८ मन्त्रमार्गप्रमाणं तु विधानं समुदीरितम् । भारद्वाजादयो येन ब्रह्मणः साम्य(सम)तां गताः॥६ प्रसन्नहृदयो विप्रः प्रयोगादस्य कर्मणः ।। कामांस्तांस्तानवाप्नोति ये ये कामा हृदि स्थिताः॥१० इति चतुर्थप्रश्ने षष्ठोऽध्यायः । ११७

Loading...

Page Navigation
1 ... 738 739 740 741 742 743 744