Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 743
________________ . . १८७८ बोधायनस्मृतिः। . [अष्टमोधनस्य क्रियते त्यागः कर्मणां सुकृतामपि । पुंसोऽनृणस्य पापस्य विमोक्षः क्रियते कचित् ॥११ मुक्तो यो विधिनतेन सर्वपापार्णसागरात् । आत्मानं मन्यते शुद्धं समर्थ कर्मसाधने ॥१२ सर्वपापाणमुक्तात्मा क्रिया आरभते तु याः। अयत्नेनैव ताः सिद्धि यान्ति शुद्धशरीरिणः ॥१३ प्राजापत्यमिदं पुण्यमृषीणां समुदीरितम् । इममध्यापयेन्नित्यं धारयेच्छृणुतेऽपि वा ॥१४ मुच्यते सर्वपापेभ्यो ब्रह्मलोके महीयते । यान्सिसाधयिषुर्मन्त्रान्द्वादशाहानि ताञ्जपेत् ॥१५ घृतेन पयसा दध्ना प्राश्य निश्योदनं सकृत् । दशवारं तथा होमः सर्पिषा सवनत्रयम् ।।१६ पूर्वसेवा भवेदेषा मन्त्राणां कर्मसाधने । मन्त्राणां कमसाधन इति ॥१७ । . इति चतुर्थप्रश्नेऽष्टमोऽध्यायः । अतिलोभात्प्रमादाद्वा ॥१ निवृत्तः पापकर्मभ्यः ।।२ समाधुच्छन्दसा रुद्राः ॥३ अथातः संप्रवक्ष्यामि ॥४ प्रायश्चित्तानि वक्ष्यामः ।।५ प्रायश्चित्तानि वक्ष्यामः ॥६ प्रायश्चित्तानि वक्ष्यामः ॥७ प्रायश्चित्तानि वक्ष्यामः ।। इति चतुर्थः प्रश्नः॥ समाप्ताचेयं बौधायनस्मृतिः। समाप्तश्चायं धर्मशास्त्रस्य (स्मृतिसन्दर्भस्य ) तृतीयोभागः। ॐ तत्सद्ब्रह्मार्पणमस्तु ।

Loading...

Page Navigation
1 ... 741 742 743 744