Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 735
________________ १८७० बौधायनस्मृतिः। [चतुर्थोएनस एनसोऽवयजनमसि स्वाहेति ॥१५ एतैरष्टाभिर्तुत्वा सर्वस्मात्पापात्प्रमुच्यते ॥१६ अथाप्युदाहरन्ति ॥१७ अघमर्षणं देवकृतं शुद्धवत्यस्तरत्समाः। कूष्माण्ड्यः पावमान्यश्च विरजा मृत्युलाङ्गलम् ॥१८ दुर्गा व्याहृतयो रुद्रा महादोषविनाशना इति ॥१६ इति चतुर्थप्रश्ने तृतीयोऽध्यायः। ......... अथ चतुर्थप्रश्ने चतुर्थोऽध्यायः । - प्रायश्चित्तविधिवर्णनम् । प्रायश्चित्तानि वक्ष्यामो विख्यातानि विशेषतः। समाहितानां युक्तानां प्रमादेषु कथं भवेत् ॥१ मृतं च सत्यं चेत्येतदघमर्षणं निरन्तर्जले पठन्सर्वस्मात्पापात्प्रमुच्यते ॥२ आऽयं गौः पृश्निरक्रमीदित्येतामृचं निरन्तर्जले पठन्सर्वस्मात्पापात्प्रमुच्यते ॥३ दुपदादिवमुमुचान इत्येतामृचं त्रिरन्तर्जले पठन्सर्व स्मात्पापात्प्रमुच्यते ॥४ हंसः शुचिषदित्येतामृचं त्रिरन्तर्जले पठन्सर्वस्मात् पापात्प्रमुच्यते ॥५

Loading...

Page Navigation
1 ... 733 734 735 736 737 738 739 740 741 742 743 744