Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 707
________________ १८४२ बौधायनस्मृतिः। [दशमोअथाप्युदाहरन्ति ॥६७ अष्टौ ग्रासा मुनेर्भक्ष्याः षोडशारण्यवासिनः। द्वात्रिंशतं गृहस्थस्यापरिमितं ब्रह्मचारिणः ॥६८ भैक्षं वा सर्ववणेभ्य एकान्नवा द्विजातिषु । अपि वा सर्ववर्णेभ्यो न चैकान्न द्विजातिष्विति ॥६६ अथ यत्रोपनिषदमाचार्या त्रुवते तत्रोदाहरन्ति ।।७० स्थानमौनवीरासनसवनोपस्पर्शनचतुर्थषष्ठाष्टमकालव्रतयुक्तस्य कणपिण्याकयावकदधिपयोव्रतत्वं चेति ॥७१ तत्र मौनेयुक्तौविद्यवृद्धैराचार्यमुनिभिरन्यैर्वाऽऽश्रमिभिबहुश्रुतैर्दन्तान्संधायान्तर्मुख एव यावदर्थं संभाषीत न यत्र लोपो भवतीति विज्ञायते ॥७२ स्थानमौनवीरासनानामन्यतमेन संप्रयोगो न त्रयं संनिपातयेत् ॥७३ यत्र गतश्च यावन्मात्रमनुव्रतयेदापत्सु न यत्र लोपो भवतीति विज्ञायते ॥७४ स्थानमौनवीरासनसवनोपस्पर्शनचतुर्थषष्ठाष्टमकालव्रतयुक्तस्य ॥७५ अष्टौ तान्यव्रतघ्नानि आपो मूलं घृतं पयः। हविर्ब्राह्मणकाम्या च गुरोवेचनमौषधमिति ॥७६ सायं प्रातरनिहोत्रमन्त्राञ्जपेत् ।।७७ वारुणीभिः सायं संध्यामुपस्थाय मैत्रीभिः प्रातः ॥७८

Loading...

Page Navigation
1 ... 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744