Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 719
________________ [ षष्ठो १८५४ बौधायनस्मृतिः। सुवर्णस्तैन्यमव्रत्यमयाज्यस्य च याजनम् । ब्राह्मणानां परीवादं पुन(नी)थ मे यवाः॥ गणान्नं गणिकान्नं च शूद्रान्नं श्राद्धसूतकम् । चौरस्यान नवश्राद्धं सर्व पुन(नी)थ मे यवा इति ॥१० श्रप्यमाणे रक्षां कुर्यात् ।।११ नमो रुद्राय भूताधिपतये द्यौः शान्ता कृणुष्व पाजः प्रसितिं न पृथ्वीमित्येतेनानुवाकेन ॥१२ ये देवाः पुरःसदोऽग्निनेत्रा रक्षोहण इति पञ्चभिः पर्यायः॥ मानस्तोके ब्रह्मा देवानामिति द्वाभ्याम् ॥१४ शृतं च लघ्वश्नीयात्प्रयतः पात्रे निषिच्य ॥१५ ये देवा मनोजाता मनोयुजः सुंदक्षा दक्षपितरस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहेति ॥१६ आत्मनि जुहुयात् ।।१७ त्रिरात्रं मेधार्थी षडानं पीत्वा पापकृच्छुद्धो भवति ।।१८ सप्तरात्रं पीत्वा भ्रूणहननं गुरुतल्पगमनं सुवर्णस्तैन्यं सुरापानमिति च पुनाति ॥१६ एकादशरात्रं पीत्वा पूर्वपुरुषकृतमपि पापं निर्गुदति ॥२० अपि वा गोनिष्क्रान्तानां यवानामेकविंशतिरात्रं पीत्वा गणान्पश्यति गणाधिपतिं पश्यति विद्या पश्यति विद्याधिपतिं पश्यतीत्याह भगवान्बौधायनः ॥२१ इति तृतीयप्रश्ने षष्ठोऽध्यायः ।

Loading...

Page Navigation
1 ... 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744