Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
१८६२
बौधायनस्मृतिः। [दशमोअथाप्युदाहरन्ति ॥६ सर्व पाप्मानं तरति तरति ब्रह्महत्यां यो ऽश्वमेघेन यजत इति ॥७ अमिष्टुता वाऽभिशस्यमानो यजेतेति ॥८ तस्य निष्क्रयाणि जपस्तपो होम उपवासो दानम् ॥ उपनिषदो वेदादयो वेदान्ताः सर्वच्छन्दःसु संहिता मधून्यघमर्षणमथर्वशिरो रुद्राः पुरुषसूक्तं राजनरौहिणे बृहद्रथंतरे पुरुषगतिमहानाम्न्यो महावैराजं महादिवाकीयं ज्येष्ठसाम्नामन्यतमद्व(मं ब)हिष्पवमानः कूष्माण्ड्यः सावित्री चेति पावनानि ॥१० उपसन्न्यायेन पयोव्रतता शाकभक्षता फलभक्षता मूलभक्षता प्रसृतयावको हिरण्यप्राशनं घृतप्राशनं सोमपानमिति मेष्यानि ॥११ । सर्वे शिलोच्चयाः सर्वाः स्रवन्त्यः सरितः पुण्या हृदास्तीर्थान्युषिनिकेतनानि गोष्ठक्षेत्रपरिष्कन्दा इति देशाः ॥१२ अहिंसा सत्यमस्तैन्यं सवनेषदकोपस्पर्शनं गुरुशुश्रूषा ब्रह्मचर्यमधःशयनमेकवखताऽनाशक इति तपांसि ॥१३ हिरण्यं गौर्वासोऽश्वो भूमिस्तिला घृतमन्नमिति देयानि॥१४ संवत्सरः षण्मासाश्चत्वारस्त्रयो द्वावेकश्चतुर्विशत्यहो द्वादशाहः षडहस्यहोऽहोरात्र एकाह इति कालाः ॥१५ एतान्यनादेशे क्रियेरन् ॥१६ एनःसु गुरुपु गुरूणि लधुषु लघूनि ॥१७

Page Navigation
1 ... 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744