Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 710
________________ ऽध्यायः। शालीनयायावरादीनां धर्मनिरूपणम् । १८४५ तासामेव वाऽन्याऽपि दशमी वृत्तिर्भवति ॥८ आ नववृत्तः॥ . केशश्मश्रुलोमनखानि वापयित्वोकल्पयते कृष्णाजिनं कमण्डलु यष्टिं वीवधं कुतपहारमिति ॥१० त्रैधातवीयेनेष्वा प्रस्थास्यति वैश्वानर्या वा ॥११ अथ प्रातरुदित आदित्ये यथासूत्रमनीन्प्रज्वाल्य गार्हपत्य आज्यं विलाप्योत्यूय मुक्नुवं निष्टप्य संमृज्य सुचि चतुर्गृहीतं गृहीत्वाऽऽहवनीये वास्तोष्पतीयं जुहोति ॥१२ वास्तोष्पते प्रतिजानीयस्मानिति पुरोनुवाक्यामनूच्या वास्तोष्पते शग्मया संसदा त इति याज्यया जुहोति ॥१३ सर्व एवाऽऽहितानिरित्येके ॥१४ यायावर इत्येके ||१५ निर्गत्य ग्रामान्ते ग्रामसीमान्ते वाऽवतिष्ठते तत्र कुटी मठं वा करोति कृतं वा प्रविशति ॥१६ कृष्णाजिनादीनामुपक्लप्तानां यस्मिन्नर्थे येन येन यत्प्रयोजनं तेन तेन तत्कुर्यात् ।।१७ प्रसिद्धमग्नीनां परिचरणं प्रसिद्ध दर्शपूणमासाभ्यां यजनं प्रसिद्धः पञ्चानां महतां यज्ञानामनुप्रयोग उत्पन्नानामोषधीनां निर्वापणं दृष्टं भवति ॥१८ विश्वेभ्यो देवेभ्यो जुष्टं निर्वपामीति वा तूष्णीं वा ताः संस्कृत्य सादयति ॥१६ तस्याध्यापनयाजनप्रतिग्रहा निवतन्तेऽन्ये च यज्ञक्रतव इति॥२० हविष्यं च व्रतोपायनीयं दृष्टं भवति ॥२१

Loading...

Page Navigation
1 ... 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744