Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
१८४८
बौधायनस्मृतिः। [द्वितीयोपालनीति ॥२६ अहिंसिकेत्येवेदमुक्तं भवति ॥२७ तुषविहीनांस्तण्डुलानिच्छति सजनेभ्यो बीजानि वा पालयतीति पालनी ।।२८ शिलोग्छति ॥२६ अवारितस्थानेषु पथिषु वा क्षेत्रेषु वाऽप्रतिहतावकाशेषु वा यत्र यत्रौषधयो विद्यन्ते तत्र तत्रैकैकं कणिशमुन्छयित्वा काले काले शिलैर्वतयतीति शिलोञ्छा ॥३० कापोतेति ॥३१ अवारितस्थानेषु पथिषु वा क्षेत्रेषु वाऽप्रतिहतावकाशेषु वा यत्र यत्रौषधयो विद्यन्ते तत्र तत्राङ्गुलिभ्यामेकैकामोषधिमुन्छयित्वा संदर्शनात्कपोतवदिति कापोता ॥३२ सिद्धच्छेति ॥३३ वृत्तिभिः श्रान्तो वृद्धत्वाद्धातुक्षयाद्वा सजनेभ्यः सिद्धमन्न मिच्छतीति सिद्धच्छा ॥३४ तस्याऽऽत्मसमारोपणं विद्यते संन्यासिवदुपचारः पवित्रकाषायवासोवर्जम् ॥३५ वान्याऽपि वृक्षलतावल्ल्यौषधीनां च तृणौषधीनां च श्यामाकजतिलादीनां वन्याभिवर्तयतीति वान्या ॥३६ अथाप्युदाहरन्ति ॥३७ मृगैः सह परिस्पन्दः संवासस्तेभिरेव च । तैरेव सहशी वृत्तिः प्रत्यक्षं स्वर्गलक्षणमिति ॥३८
इति तृतीयप्रश्ने द्वितीयोऽध्यायः ।

Page Navigation
1 ... 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744