Book Title: Smruti Sandarbh Part 03
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 716
________________ ऽध्यायः ] ब्रह्मचारिण अभक्ष्यभक्षणे प्रायश्चित्त वर्णनम् । १८५१ अथ तृतीयप्रश्ने चतुर्थोऽध्यायः। अथ ब्रह्मचारिण अभक्ष्यभक्षणे प्रायश्चित्त वर्णनम् । अथ यदि ब्रह्मचार्यव्रत्यमिव चरेत्मांसं वाऽश्नीयात्रियं वोपेयात्सर्वास्वेवाऽऽतिष्वन्तराऽगारेऽग्निमुपसमाधाय संपरिस्तीर्याग्निमुर्खात्कृत्वाऽथाऽऽज्याहुतीरुपजुहोति ॥१ कामेन कृतं कामः करोति कामायैवेदं सर्व यो मा कारयति तस्मै स्वाहा ॥२ मनसा कृतं मनः करोति मनस एवेदं सर्व यो मा कारयति तस्मै स्वाहा ॥३ रजसा कृतं रजः करोति रजस एवेदं सर्व यो मा कारयति तस्मै स्वाहा ॥४ तमसा कृतं तमः करोति तमस एवेदं सर्व यो मा कारयति तस्मै स्वाहा ॥५ पाप्मना कृतं पाप्मा करोति पाप्मन एवेदं सर्वयोमा कारयति तस्मै स्वाहा ॥६ मन्युना कृतं मन्युः करोति मन्यव एवेदं सर्व यो मा कारयति तस्मै स्वाहेति ॥७ जयप्रभृति सिद्धमा धेनुवरप्रदानात् ॥८ अपरेणाग्नि कृष्णाजिनेन प्राचीनग्रीवेणोत्तरलोम्ना प्रावृत्य वसति ।।

Loading...

Page Navigation
1 ... 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744