Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________ शवजय-कल्पवृत्ती विशेषतः / भूपस्य वल्लभो जात आत्मेव सततं दृढम् / उक्तश्च-" महावीरस्य देवस्य मुक्तेः वर्षशते गते / पञ्चपञ्चाशदधिके चन्द्रगुप्तोऽभवन्नृपः // 1 // " अत्रान्तरे सुराचार्याः पावयन्तो महीतलम् / तस्यां पुयाँ बहिर्देशे समवासापुरञ्जसा // ततो गत्वा नृपस्तत्र नत्वा श्रीगुरुराट्क्रमौ। धर्मं श्रोतुं ययौ याव-त्तावच्छीगुरबो जगुः / यतः- " निद्रान्ते परमेष्ठिसंस्मृतिरथो देवार्चनव्यापृतिः, साधुभ्यः प्रणतिः प्रमादविरतिः सिद्धान्ततत्त्वश्रुतिः / सर्वस्योपकृतिः शुचिव्यवहृतिः सत्पात्रदाने रतिः, श्रेयोनिर्मलधर्मकर्मनिरतिः इलाध्या नराणां स्थितिः / / 1 // " इत्योदि धर्ममाकर्ण्य चाणिक्यचन्द्रगुप्तको / सम्यक्त्वादियुतं श्राद्ध-धर्भमादत्त आदरात् / / ततो महीपतिाया-ध्वना रक्षन् प्रजाः सदा / धर्मकृत्यानि कुरुते चाणिस्यमन्त्रिसंयुतः / / चन्द्रगुप्तस्य राज्ये तु प्रदेशे विषमे स्थिताः / नन्दानुजीविनश्चौर्यं कुर्वते पुरुषा रहः / / पुररक्षाकरं कञ्चिद् वीक्षमाणः चणिप्रसूः / कस्यचित् कोलिकस्यौको जगामामलबुद्धिमान् // मत्कोटकदरिष्वग्नि क्षिपन्तं कोलिकं तदा / दृष्ट्वा चणिप्रसूः प्राह क्रियते किं त्वया ह्यदः? / / कोलिकः प्राहमत्पुत्रो-पद्रवोत्पादकानमून् / मत्कोटकानहं मूला-दुन्मूलयन्निहास्मि हि॥ वयं धीव्यवसायाभ्यां ज्ञात्वा कोलिकमञ्जसा / चाणिक्यः प्रोक्तवाँश्चन्द्र-गुप्तस्य पुरतश्च तत् / / आकार्य कोलिकं तत्र चन्द्रगुप्ताचणिप्रसूः / पुराध्यक्षं व्यधात् सद्यो वैरिच्छेदनहेतवे / कोलिकेन क्रमानन्दानुगाश्चौराः प्रपञ्चतः / विश्वास्य जन्निरे नून-मुपलक्ष्येङ्गितादिना // यत्र ग्रामे न चाणिक्यो मिक्षा प्रलब्धवान् पुरा / तेषां शिक्षा वितीर्यादौ जगाविति पुनः पुनः // दीनदुःस्थतपस्व्यादि-जनेभ्य आदरात् सदा। स्वसम्पत्त्यनुसारेण दानं देयं भवादृशैः / / " न कयं दीणुद्धरणं न कयं साहम्मियाण वच्छल्लं / हिथयम्मि वीयराओ न धारिओ हारिओ जम्मो // 1 // अभयं सुपत्तदाणं अनुकंपा उचिअ कित्तिदाणं च / दोहिंवि मुक्खो भणिओ तिन्नि वि भोगाइयं दिति / / 2 // " ततो निरन्तरं दानं ददानो मेदिनीपतिः। कर्णादिदानिनां श्रेणौ रेखां समगमत् क्रमात् / / चन्द्रगुप्तस्य कोशं तु स्वल्पं ज्ञात्वा चणिप्रसूः। दीनारैः स्थालमापूर्य लोकान् प्रति जगावदः / / अक्षैर्दीव्यन् मया सार्द्ध यो मां जेष्यति मानवः / दीनारपूरितं स्थालं स गृह्णातु ममान्तिकात् / / जेष्यामि यं नरं दीव्यन् स तु दीनारमेककम् / मह्यं दास्यतु रेखेयं प्राविजेयं वचो मम / / ततो जयप्रदेः पाशै-र्दीव्यन् चणिप्रसूस्तदा / कोरित्रयप्रमाणाँश्च दीनारानर्जयजनात् / / दीनारशतमेकं तु इभ्यमिभ्यं प्रति स्फुटम् / याचते चणिसूः कोश-कृते चन्द्रस्य भूपतेः।। तदेच्या जगदुः स्तोका श्रीरस्त्यस्मन्निकेतने / तेन किं दास्यते तुभ्यं लक्ष्मीरस्माभिरेव तु // मण्डयित्वोत्सवं भोक्त-मिभ्यानाकार्य मन्त्रिराट् / भोजयित्वा वरं भोज्यं पाययामास वारुणीम् / शायिताश्चित्रशालाया-मिभ्यास्ते हास्यतत्पराः / जगदुः स्वस्वगेहस्य लक्ष्मीसङ्घयां परस्परम् // चाणिक्योऽवग् गृहे मे त रैदण्डः स्वर्णकुण्डिकाः / चतस्रो वरमाणिक्य-सम्पूर्णाः सन्ति सुन्दराः // चतुःकोटिमिताः सन्ति दीनाराच्चण्डिकाभिधा / विद्यते मद्वशो राजा तद् वादयत झल्लरीम् / / ततः ज्ञल्लरीवाद्ये वादिते कोलिकैस्तदा / जगाविभ्योऽपरो हस्त-मुत्क्षिप्योच्चैःस्वरं स्फुटम् // योजनाष्टशतीयाने यानीभस्य पदानि तु / तानि स्वर्णसहस्रेण प्रत्येकमर्चयाम्यहम् / / प्राग्वद् वादितझल्ला-मपरः कश्चिदब्रवीत् / तिलानामढके हप्ते वृष्टे मेघे शुभेऽनिले / / तिला भवन्ति यावन्त-स्तावन्ति मम सद्मनि / जाम्बूनदसहस्राणि सन्ति वादत झलरीम् // युग्मम् // प्रोग्वद् वादितज्ञला-मन्योऽवग् जलदागमे / वहन्त्यौ यमुनागङ्गे परित वारिभिर्भृशम् / / स्खलाम्येकदिनस्यैव म्रक्षणेन गवां किल / झल्लरी कोलिकाः सद्यो-यूयं वादयता.
Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404