Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

Previous | Next

Page 380
________________ जलोपसर्गनिवारणे मीनध्वजभूपकथा छद्रुमदसमदुवालसाइं मासद्धमासखमणाई / तिगरणसुद्धो लहइ सित्तुंजे संभरंतो य // 3 // " इत्यादि सिद्धशैलस्य कुर्वाणः स्मरणं सदा / प्रत्याख्यानादि कुरुते बलिंदमो नृपस्तपः // मृत्वा कालेऽथ स क्ष्मापः सिंहाहनगरे वरे / सिंहसेननृपस्याभूद् वैरिसिंहाभिधः सुतः / / क्रमात् प्राप्य पितू राज्यं सदा श्रीगुरुसन्निधौ / शत्रुअयस्य माहात्म्यं वैरिसिंहोऽशृणोदिति // पल्योपमसहस्रं तु ध्यानालक्षमभिग्रहात् / दुष्कर्म क्षीयते मार्गे सागरोपमसश्चितम् // स्मृते शत्रुजये तीर्थे दृष्टे स्मृते (ऽथवा श्रुते) पुमः / दुःकर्म क्षीयते पुंसां भूरिसागरसेवितम् // श्रुत्वेति सिद्धभूमिधे गत्वा नत्वा जिनेश्वरान् / वैरिसिंहोऽर्जयामास भूरि पुण्यं शिवप्रदम् // वैरिसिंहो मृतोऽन्येाः श्रीपुरे चन्द्रभूपतिः / वैरिकेतुसुतश्चन्द्र-रूपश्रीरभवत्तदा / वितीर्य चन्द्रभूपोऽथ राज्यं स्वसूनवेऽन्यदा / दीक्षां लात्वा शिवक्ष्माघे ध्यानमेवं व्यधात् सदा // यत:-"कालो न यातो वयमेव योता भोगा न भुक्ता वयमेव भुक्ताः / तृष्णा न जीर्णा वयमेव जीर्णास्तपो न तप्तं वयमेव तप्ताः // 1 // " एवं विसन्वतस्तस्य ध्यानं शोभनभावतः / बभूव केवलज्ञानं ततो मुक्तिरजायत // साधयित्वाऽखिलान् शत्रून् वैरिकेतुनरेश्वरः। शत्रुञ्जयस्य तीर्थस्य चकार स्मरणं हृदि / / स्वीयस्थानस्थितस्यापि स्मरतः सिद्धपर्वतम् // उत्पन्नं केवलज्ञानं वैरिकेतुनरेशितुः / / प्रबोध्य भविनो भूरीन् वैरिकेतुर्यतीश्वरः / आयुःक्षये ययौ मुक्ति-नगर्यां सिद्धपर्वते // 27 // शति स्मरणे कथा। जलजलणजलहिरणवनहरिकरिविसविसहराइ दुट्ठभयं / नासइ जं नाम सुई तं सित्तुंजय महातित्थं // 37 // 'जलं' वारि 'ज्वलनो' वह्निः 'जलहि' जलधिः ‘रणं' सङ्ग्राम ‘वनं' अरण्यादि 'हरिः' सिंहः 'करिः' हस्तिः 'विषः' 'विषधरः' सर्पः इत्यादि भयं दुष्टं नश्यति, यस्य नाम-अभिधा तस्याः श्रुतेः तच्छत्रुञ्जयतीर्थं जयताच्चिरम् / कान्त्यां पुरि धनक्षोणी-पतेर्भूरिषु सूनुषु / मीनध्वजः सुतो युद्ध-कलादक्षोऽभवत् क्रमात् // वसन्तसमयेऽन्येशुरुद्याने तनयान् नृपः / प्रेषीत् कीडाकृते लोका-नुग्रहाय दिनोदये // राज्ञोक्तं नन्दनैः सर्वैर्दाने रैकोटिरेकिका / वर्ष प्रति व्यये कार्या पृथक पृथक् च नाधिका // तदा पित्रुदिते सवै-नन्दनैर्विहिते सति / राजा हृष्टो ददौ मानं सर्वेषां च पृथक् पृथग // अन्यदा लघुपुत्रेण स्वर्णकोटिचतुष्टयी / याचकेभ्यो ददौ भूप-पुरः केनचिदीरितम् // ततः क्रुद्धो नृपः पुत्रं हक्कयन् प्रोक्तवानिति / रे सूनो ! किं त्वया भूरि भूरि दत्तं मया विना // मद्दृष्टयोन समागम्यं मदुक्तं न कृतं यतः / ततो मीनध्वजो रात्रा-वेकाकी निर्ययौ पुरात् // खरोऽभूद्दक्षिणो घूकोऽपरस्यां दक्षिणः पुनः / दक्षिणस्यां शिवारावो घोरो दुर्गारवः पुनः // एते यशुकुना जाता ममेति तत्र तस्थिवान् / विमलेन फलं वयं जायते पथि गच्छताम् / / घटीद्वयान्तरे नद्यास्तीरे शिवारवं वरम् / श्रुत्वा वंशचतुःशाखा-मध्ये हृष्टोऽभवत् स च // वंशस्याधः स्थितं रत्न-चतुष्टयं मनोहरम् / ललौ स च चतुष्कोटि-मूल्यं भूपतिनन्दनः // यतः

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404