Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

Previous | Next

Page 396
________________ शत्रुञ्जयस्मरणे भूपकथा श्रीपुरे धनभूपालो-ऽपत्याभावाद्धनश्रियः। पल्या ऊवं द्वितीयां तु परिणिन्ये प्रियां रमाम् // तत आद्यप्रियाऽन्यां तु विघ्ने पातयितुं सदा / चकार कोटिशः कूट-श्रोण कपटतत्परा // यतः- "आवतः संशयानामविनयभवनं पत्तनं साहसानां, दोषाणां सन्निधानं कपटशतगृहं क्षेत्रमप्रत्ययानाम् / अग्राह्यं यन्महद्भिर्नरवरवृषभैः सर्वमोयाकरंड-स्त्रीयन्त्रं केन लोके विषममृतमयं धर्मनाशाय सृष्टम् // 1 // " आरूढो भूपतिः काष्ठ-मयमोरं महीं भ्रमन् / विलोकते बहुन्येवा-श्चर्याणि च पुरे पुरे // द्वितीया गेहिनी काष्ठ-मोरमारुह्य मौढ्यतः / चकर्ष कीलिकां.याव-त्तावद् व्योम्न्यगमत् स च // भार्यायुक्ते गते मोरे राजा प्राह प्रियां प्रति / पल्या विलोकनकृते यास्याम्यहं प्रगे ननु // सा प्रिया कुटिला प्राह गच्छाऽऽनय प्रियां द्रुतम् / शम्बलं गृह्यतां मार्गे गच्छतः सुखहेतवे / / शम्बलं मोदकादीनां बद्ध्वा सप्तसु प्रन्थिषु / दत्तं पल्या नृपो हृष्टो लात्वाऽचालीत् प्रियाकृते // भोजनावसरे याते प्रथमग्रन्थिशम्बले / भुक्ते भूपोऽभवत् सर्प-स्विफणी कज्जलप्रभः / / द्वितीयग्रन्थिसत्के तु शम्वले भक्षिते सति / भूपरूपधरो जातः स सर्पस्तत्क्षणात्तदा // तृतीयग्रन्थिसत्के तु० ओतुर्भूपो भवच्छीघ्र ताहगोषधयोगतः।। चतुर्थग्रन्थिसत्के तु० / भूपरूप० // पञ्चमग्रन्थि० / सिंहोऽजनिष्ट षष्ठे तु सहजः समजायत // सप्तमप्रन्थि / मृगो भूत्वाऽचलत् स्वीय-ग्राम प्रति कृतत्वरः / / मार्गे स मार्गणाधैर्विद्धो भ्रष्टोऽध्वनोऽभवत् / तत आसन्नशैलस्य वने तस्थौ मृगः स च // ततः काष्ठमयूरे तु भग्ने आस्फाल्य पर्वते / सा भूपगेहिनी भूमौ पतिताऽचेतनाऽभवत् / / क्षणात् सा वायुतो जाता सचेतनातिदुःखिता / रुदन्ती समगान्नामि-पुत्रप्रासाद आत्मना / / तत्रैक्ष्य वृषभं देवं प्रपूज्य कुसुमैवरैः / अनेष्ट समयं भूरि मेदिनीपतिगेहिनी // वने तत्र समायातं मृगं दृष्ट्वा नृपप्रिया / हृष्टा चकर्ष बाणात् सा निःशल्योऽथ मृगोऽभवत् // मृगत्रियो मिथः प्रीति-भाजौ तत्रादिमं जिनम् / नमतः स्माऽऽलये तस्मिन् तिष्ठतः स्म वने पुनः // अन्यदाऽभ्येत्य तत्रैव नत्वा श्रीवृषभं प्रभुम् / ज्ञानी धर्मोपदेशं तु दातुं समुपाविशत् // विद्याधरास्तदा धर्म शृण्वन्तो ज्ञानिसन्निधौ / दृष्ट्वा मृगस्त्रियौ ज्ञानि-पार्वे ऽप्राक्षीदिति स्फुटम् / / भगवन् ! स्त्रीमृगावत्र तिष्ठतः स्म जिनालये। ततो ज्ञानी तयोः सर्वं सम्बन्धमूचिवान् स्फुटम् / / खगाः प्रोचुस्तया पूर्व-पल्या चास्य तु शम्बलम् / प्रददे तादृशं किं हि ततो ज्ञानी जगाविति / / शिक्षां दातुं तया पत्न्या शम्बलं तादृशं ददे / असौ तु विद्यते पत्नी सती पत्युः हितैषिणी // ततो विद्याधरैः तैस्तु नृपरूपो मृगः कृतः / ततस्तावपि सर्वज्ञं नमतः स्म पुनः पुनः॥ तदा तयोः पुरः शत्रु-जयमाहात्म्यमद्भतम् / ज्ञानिना गदितं ताभ्यां श्रद्दधे च हृदन्तरे / / ततः स भूपतिः पत्नी-युक्तः स्वनगरे द्रुतम् / समेत्य तां प्रियां त्यक्त्वा धर्मकर्मकरोऽभवत् / / ततो भूपतिराज्योः स्वपुरीस्थितयोरपि / शत्रुञ्जयस्य मोहात्म्यं सततं शृण्वतोरिति / / पदे पदे विलीयन्ते भवकोटिभवान्यपि / पापानि पुण्डरीकाद्रे-र्यात्रां प्रति यियासताम् / / न रोगो न च सन्तापो न दुःखं न वियोगिता / न दुर्गतिर्न शोकश्च पुंसां शत्रुञ्जयस्पृशाम् // भूरिजन्मभवं पापं सिद्धाद्रिमहिमश्रुतेः / तयोः सद्योऽभवज्ज्ञानं तृतीयं कर्मयोगतः // ततः शत्रुञ्जये गत्वा राजा राज्ञी च भावतः / दत्त्वा राज्यं स्वपुत्राय लातः स्म संयमश्रियम् / तत्रस्थयोस्तपस्तीनं तपो वितन्वतोः सतोः। उत्पन्नं केवलज्ञानं लोकालोकप्रकाशकम् // 33 // इति शत्रुञ्जयस्मरणे भूपकथा /

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404