Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________ शत्रुञ्जषयात्रायां साधुगुणराजसम्बन्धः 149 सप्त सहस्रास्तलहट्टिकाम् / शत्रुजयस्य तीर्थस्य समीयुर्नन्तुमर्हतः / एवमन्येऽपि ये सङ्घ नाथा भूत्वा शिवाचले / नन्तुं जिनं ययुस्तेषां सङ्खथा को वेत्ति साम्प्रतम् / / आसापल्ल्यां लसल्लक्ष्मी-वदिभ्यशोमितः क्षितौ / अहम्मदः सुरत्राणः पपाल पृथिवीं नयात् / / तत्रोकेशान्वयोत्तंसः श्राद्धः साधुशिरोमणिः / आसीत्तस्याभवत्पुत्रो गुणराजाभिधो वरः ।.......जिनप्रोक्त-धर्मकर्मपरायणः / / विक्रमार्कनृपादष्ट षट वेदचन्द्रसम्मिते / वत्सरे गुणराजस्तु गुरुं नन्तुं समीयिवान् // तपागच्छाधिपा देवसुन्दरामिधसूरयः / धर्मोपदेशना मध्ये दानधर्म जगुस्तदा / तथाहि-" पात्रे धर्मनिबन्धनं तदितरे प्रोद्यद्दयाख्यापकं मित्रे प्रीतिविवर्द्धकं रिपुजने वैरापहारक्षमम् / भृत्ये भक्तिभरावह नरपतौ सन्मानपूजाप्रदं, भट्टादौ च यशस्करं वितरणं न काप्यहो ! निष्फलम् / / 1 / / श्रुत्वेति साधुकोढीर-गुणराजो गुणाकरः / दातुमन्नं प्रवृत्तः श्राग बुभुक्षितेषु नृथ्वलम् // " ददौ दिने दिनेऽन्नस्य मूढकद्वितयं स च / निजज्ञातिपरज्ञाती जीवयामास चानतः // विस्तरादेककां यात्रां श्रीसोपारकपत्तने / कुर्वन् स चाव्ययत् षष्टि-सहस्रान् टङ्ककस्य हि // मुनिसुन्दरसूरीणा-मुपाध्यायपदं स च / कारयन् व्यययत् खद्वि-मिता सहस्रटङ्ककान् / / तस्य भ्राताम्बको भोगी द्रमान् पञ्चशतप्रमान् / दिनं दिनं प्रति स्फावा-न्यदा निर्वृतिकं व्यधात् // भग्ने नितिके तस्मिनु भार्यया हठतः स च / वैराग्यवासितस्वान्तो दीक्षां लातुमना अभूत् // अमानिते प्रियोभ्रातृ-सज्जनस्त्यक्तवैभवः / अम्बाको व्रतमादाय स्वयमस्थाच्छरद्वयम् / / मानितेऽथ कुटुम्बन बह्नीं लक्ष्मी व्ययन्मुदा / भ्रातुः प्रादापयदीक्षां गुणराजो गुरोः शयात् // देवसुन्दरसूरीश-पार्श्व शुद्धं व्रतं क्रमात् / पालयन् विदधे प्राय आचाम्लादि तपः स च // सोमसुन्दरसूरीश-पार्श्व यात्राफलं तदा / श्रुत्वा शत्रुञ्जये यात्रां कर्तुकामोऽभवत् स च / / सोमसुन्दरसूरीशो-पदेशा द्विक्रमा तः। अश्वाश्ववेदशीतांशु-प्रमिते वत्सरे 1477 गते / गुणराजो बहुं सङ्घ-माकार्य शुभवासरे / शत्रुञ्जये जिनान् नन्तु-मुत्सुकोऽजनि भावतः // अहम्मदसुरत्राणात् स प्राप्य फरमाणकम् / गुणराजो व्यधाइवा-लयं रथस्थमुच्चकैः // स्वर्णपत्रावितशृङ्ग-श्वेतोऽक्षद्वययुद्धरः / रथो लसद्ध्वजोऽत्यन्तं सर्वेषां मोदमादधौ // एवमन्ये रथा वर्या नवापि चित्तमोददाः / आनीता अन्यसधेश-स्तत्र रेजुर्जिनाश्रिताः॥ षत्रिंशच्छतान्येयुः सेज्जंबाला मनोहराः / रथा अस्थगिताः सप्त शतानि रेजिरे पुनः // चतुःशतमिता वर्या वाहिन्यः पित्तलात्मकाः / शतानि पञ्च ताक्ष्याणां प्रौष्टिकानां शताष्टकम् / / शतानि पञ्च महिषा महिष्यः स्युः शताधिकम् / सुखासनशतं ह्येकं महेभ्यस्त्रीविराजितम् // लक्षद्वयी मनुष्याणां साधिका रुचिरा श्रिया / गायनानां न विद्येत सङ्खथा कौतुकिनां पुनः // श्रोसोमसुन्दरश्रीमन्मुनिसुन्दरसूरयः / जयचन्द्राभिधाचार्या जिनसुन्दरसूरयः / / अन्य गच्छाश्रिताश्चेलुराचार्याः शतसङ्खयकाः / सङ्ख्या न लभ्यते साधु-साध्वीनां तु कोविदः / / स्नात्रपूजोत्सवं ग्रामे ग्रामे पुयाँ पुरि स्फुटम् / कुर्वन् सङ्घपतिस्तीर्थ-द्वये यात्रां व्यधान्मुदा / / जिनसुन्दरसूरीश-पदे य उत्सनोऽभवत् / तं न वर्णयितुं शक्यः कोविदेनिर्जरैरपि / / सार्द्ध लक्षत्रयं टङ्क-कानां सद्धर्मकर्मणि / व्ययितं गुणराजेन सङ्घाधिपतिना क्रमात् / / 56 / / सात शत्रुञ्जययात्रायां साधुगुणराजसम्बन्धः।
Page Navigation
1 ... 398 399 400 401 402 403 404