Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 398
________________ शत्रुञ्जयस्मरणविषये पृथ्वीपालभूपकथा 147 कनकाहे पुरे कृष्ण-द्विजस्य कमला प्रिया / मदनश्चन्दनः पुत्रौ क्रमेणासन् मनोहराः / मदनः सरलः पुत्रो मायावी चन्दनः पुनः / कृष्णः पुत्रद्वयीपत्नी-युक्तो वितनुते वृषम् // अन्यदा श्रीगुरूपान्ते माहात्म्यं सिद्धभूभृतः / शृण्वते सप्रियः कृष्णो मदनश्चन्दनः पुनः // तावद्गर्जन्ति हत्यादि-पातकानीह सर्वतः / यावच्छत्रुञ्जयेत्याख्या श्रूयते न गुरोर्मुखात् / / न भेतव्यं न भेतव्यं पातकेभ्यः प्रमादिभिः / श्रूयतामेकवेलं श्री-सिद्धक्षेत्रगिरिकथा / वरमेकं दिनं सिद्ध-क्षेत्रे सर्वज्ञसेवनम् / न पुनस्तीर्थलक्षेषु भ्रमणं क्लेशभाजनम् // पदे पदे विलीयन्ते भवकोटिभवान्यपि / पापानि पुण्डरीकाक्रेात्रां प्रति यियासताम् / / एकैकस्मिन् पदे दत्ते पुण्डरीकगिरिं प्रति / भवकोटिकृतेभ्योऽपि पातकेभ्यः स मुच्यते // न रोगा न च सन्तापो न दुःखं न वियोगितो। न दुर्गतिर्म शोकश्च पुंसां शत्रुञ्जयस्पृशाम् / / अन्यतीर्थेषु यद्यात्रा-शतैः पुण्यं भवेन्नृणाम् / तदेकयात्रया पुण्यं शत्रञ्जयगिरौ खलु / / प्रत्यहं पुण्डरीकादि ध्यायेद्यस्तु सुवासनः / संसारतरुमुन्मूल्य प्राप्नोति परमं पदम् // इत्यादि तीर्थमाहात्म्यं पुत्रद्वयप्रियायुतः। शृण्वन् कृष्णद्विजः प्रान्ते मृत्वाद्यं तविषं ययौ // ततश्च्युतोऽभवत् कृष्ण-जीवो धनमहीपतेः / पुत्रो बलिन्दमो नाम्ना धाम्नाऽभून्मदनोपमः // बभूव कमलाजीव-श्चन्द्रभूमिपतेः सुतः / पद्मपुरे कलक्षोणि-पते पुत्रश्च चन्दनः / / उमापुर्या धरापाल-नृपतेर्मदनासुमान् / कुलसारः सुतो जातो वर्यलक्षणलक्षितः / / चत्वारोऽपि क्रमाद्राज्यं प्राप्य शत्रुञ्जयाचले। यात्रां कृत्वा व्रतं लात्वा तेपुश्च प्रवरं तपः / / सर्वकर्मक्षयं कृत्वा सर्वेऽपि नृपनन्दनाः। क्रमोत् कल्याणनगरी-मलश्चक्रुः शुभाशयाः // 17 / / इति शत्रुजयमाहात्म्यश्रवणे कथा / कुकणाहपुरे पृथ्वी-पालो भूपः प्रजा नयात् / पालयन् धर्मकर्माणि चकार प्रतिवासरम् / / जित्वा शत्रून् समेत्य स्व-पुरे भूपो व्यचिन्तयत् / आवासो रुचिरश्चेद्धि कार्यते स्यात्तदा वरम् // ध्यात्वेति सदनं स्वर्गि-विमानस्य सहोदरम् / अकारयन्महीपालो भूयिष्ठविभवव्ययात् // तदा वैदेशिकः कोऽपि तत्रायातो महीभुजा / पृष्ठो ममालयाभः किं विद्यतेऽन्यत्र जल्पताम् / वैदेशिको जगौ हेम-पुरे मदनभूपतेः। विद्यते सदनं वर्य-चित्रशालामनोहरम् // चित्रशालाऽत्र रुचिरा कार्यते चेन्नृपस्त्वया / तदेदं सदनं स्वर्ग-विमानं सदृशं भवेत् / / ततो भूमिपतिश्चित्र-शाला स्फारां गृहाङ्गणे / कारयित्वाऽऽहूय चित्रकारौ द्वौ कुशलौ वरौ // दत्त्वा भूरिधनं चित्रशालां चित्रयितुं तयोः। विभज्य दत्तवान् भूपः समां भूमि मुदाश्चितः // बद्ध्वाऽन्तरे पटीं वर्या तदा चित्रकरद्वयी / लग्ना चित्रयितुं चित्र-शाला स्वस्वकलाबलात् / / एकेन विदधे चित्रं षण्मास्या चित्रसद्मनि / द्वितीयेन तु वरा भूमिश्चक्रे घुण्टनकर्मतः / / अन्यदा नृपतिस्तत्रा-गत एकस्य चित्रिताम् / चित्रशालां निरीक्ष्यावग् द्वितीयं चित्रकं प्रति // षण्मासी तु गता चित्र-शाला न चित्रिता कथम् / द्वितीयश्चित्रकृत् प्राह चित्रितं चित्रसद्मसु // ततो यबनीकां पश्चा-दकारयद्यदा नृपः / तदाऽन्या चित्रशालाऽपि चित्रिता भू भुजेक्षिता // उक्तश्च भू भुजा वर्य एष चित्रकरोऽधुना / दत्तं भूरि धनं तस्मै सन्मानदानपूर्वकम् // अन्यदा बहिरुद्याने धर्मसूरि गुरूत्तमम् / नत्वाऽनैषीन्नृपश्चित्रशालायां स्थितिहेतवे // तत्र भूपो गुरूपान्ते शृण्वानो धर्ममार्हतम् / शत्रुञ्जयस्य

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404