Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 384
________________ रणे जयप्राप्तिविषये मित्रसेनकथा मञ्जसा // विंशतिस्वर्णकोटीनां निधिदेवो धनेश्वरः / भोगदेवोऽपि रैकोटि-विंशतीशोऽभवत्तदा // निधिदेवगृहद्वारे जीर्णशीर्णं वरं नरम् / दृष्ट्वा पप्रच्छ मन्त्रीशो निधिदेवः क विद्यते ? / / निधिदेवो जगावत्र किमर्थमागतो वद ? | सचिवोऽवगहं तम्य प्राघूर्णकोऽस्मि साम्प्रतम् // निधिदेवोऽभणत् प्रोघूर्णकरेवेह भक्षितः / त्वमप्यागच्छ मद्गेहे दास्ये जेमनमेव ते // मलक्लिन्नतनुर्गत्वा प्राघूर्णकयुतो वणिग् / अधौतक्रमणो भोक्तु-मुपविष्टः क्षितेस्तले // प्रथमं कङ्गवल्लादि स्तोकं तैलसमन्वितम् / श्रेष्ठो भुञ्जन् समं तेन ममार्ग दुग्धमेव सः / / पादस्खलनतो दुग्धामत्रं वण्ठोप्यभञ्जयत् / तदा रुष्टो भृशं श्रेष्ठी वण्ठस्योपरि निर्दयम् // ध्यावेष निहन्येत तदा दोषो न जायते / तत आचमनं लात्वा श्रेष्ठी तेनोत्थितः समम् / / पश्चात्तेन समं श्रेष्ठ युग्राहण्या नगरेभ्रमन् / सायं यावत् समायातोऽपिबद् रब्बां विना घृतम् // रात्रौ त्रुटितशय्यायां संजीर्णास्तरकोपरि / शायितो मन्त्रिराट् दध्या-वहो ! अस्यास्ति गौरवम् / / श्रेष्ठिन्यवग् क्रिया कण्ठ! वण्ठ ! दुग्धस्य भाजनम् / त्वयाऽभजि मया सेहे नातः कार्यमिदं त्वया // प्रातरुत्थाय मन्त्रीशो भोगदेवस्य सद्मनः / द्वारेऽभ्येत्य गृहं वयं वीक्ष्य चित्ते चमत्कृतः // सप्तभौमे गृहे तस्मिन् सुरूपान् रुचि राम्बरान् / आयातो व्रजतो वीक्ष्य मन्त्र्यवग द्वारपं प्रति / / अस्ति क भोगदेवेभ्य-स्तस्य प्राघूर्णकोऽस्म्यहम् / द्वास्थो वराम्बरः प्राहा-सने क्षणमुपाविश / / इतस्तुरङ्गमारूढो भोगदेवः सुवेषभृत् / सुपरीवारयुगा(तो चा)गात् स तस्य मिलितस्तदा / / सस्नेहं भाषितो मन्त्री भोगदेवेन तत्र सः। नीत्वा गौरवितोऽत्यन्तं सदन्नपानदानतः / दिने दिनेऽन्नपानादि-दानं तस्मै स दत्तवान् / तथा यथाऽभवद्भोग- देवो हृष्टोऽभवद् भृशम् / / मिथ्यादृष्टिसहस्रेभ्यो वरमेको ह्यणुव्रती / अणुव्रतिसहस्रेभ्यो वरमेको महाव्रती // महोबतिसहस्रेभ्यो वरमेको जिनाधिपः। जिनाधिपसमं पात्रं न भूतं न भविष्यति / / जेमनादनु कर्पूर-मिश्रपत्राणि सादरम् / दत्ते श्रेष्ठी तु सन्ध्यायां तस्मै सच्छयनास्तरे / आगतायार्थिने भूरि दानं विश्राणयति स च / साधुभ्योऽथ विशेषेण प्रासुकानं सुभक्तितः॥ दृष्ट्वैतन्मन्त्रिराडेत्य भूपोपान्ते जगौ समम् / भोगदेवनिधिदेव-स्वरूपमादितस्तदा // ततो भूपः समन्त्रीशः समेत्यावग् गुरोः पुरः / स्वरूपं भोगदेवस्य निधिदेवस्य जल्पताम् / / गुरुः प्राह रमापुर्यां चन्द्रसोमौ वणिग्वरौ। अभूतां भूरिलक्ष्मीशौ वररूपधरौ पुनः // आद्यो जिनार्चना कृत्वा साधुभ्यो वरभावतः / दत्त्वा जेमति सुश्राद्धैः सप्ताष्टभिः समं सदा // " पढमं जईण दाऊणं अप्पणा पणमीऊण पारेइ / असई सुविहियाणं भुंजेइ कयदिसालोओ // 1 // साहूण कप्पणिज्जं जं नवि दिन्नं कहिं चि किंपि तहिं / धीरा जहुत्तकारी सुसावया तं न भुंजंति // 2 // सैव भूमिस्तदेवाम्भः पश्य पात्रविशेषतः / आमे मधुरतामेति कटुत्वं निम्बपादपे / इतरेण विना भावं परेषामनुवर्तनात् / प्रासुकानं च पानं च ददे सोमेन कर्हि चित् / / अतोऽभवद्धनं तस्य न भोगः कर्हि चित् खलु / श्रुत्वेतन्मन्त्रिराडेत्य प्राह भूमीपतेः पुरः / ततो राजा समन्त्रीशो भावाद् धर्म निरन्तरम् / कुर्वाणः कारयत्य- . न्य-मनुमोदयति स्म च // तत्रान्यदा द्विषच्चक्रे समे ते मनुजाः समे / अभूवन् व्याकुला बाढं जीवितव्ये गताशयाः // तदा सन्मुखमागत्य मित्रसेनो महीपतिः। युद्धं कुर्वन् द्विषा सार्द्धं भग्नसैन्योऽभवत् क्षणात्॥ क्रमाद् व्याप्तेऽखिले देशे वैरिणा मेदिनीपतिः / स्मरन् शत्रुजयं युद्ध-कृते समरमीयिवान् / / सिद्धाद्रे. नितः सर्वान् शत्रुन् जित्वा क्षणात्तदा / सुखिनीर्जनताश्चक्रे मित्रसेनावनीपतिः // ततः शत्रु-जये भूरि समयुग शिवशर्मदे / (गत्वा श्रीषभं देवं ) स्नात्रार्चादि घृषं चक्रे कल्याणकमलाकृते / मित्रसेनो निजे

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404