Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________ रोगोपशमे कुष्ठिकथा आदिशब्देनान्या अपि कथा ज्ञेया, तथाहि विश्वपुर्यां नृपः क्षेम-करो न्याय्यभवद् वरः / युगन्धराभिधः पुत्र-स्तस्याजनि मनोहरः // युगन्धरोऽन्यदा साधो-र्ज्ञानोत्पत्त्युत्सवं सुरैः। क्रियमाणं निरीक्ष्योथ जातिस्मृति मतिं स्फुटाम् // स्मृत्वा पूर्वभवं दीक्षां लात्वा युगन्धरः स्वयम् / ज्ञान्युपान्ते गतो वृत्तं शुद्ध पालयितुं तदा // रोजादयो जना वन्द-नायै तत्र तदाऽऽययुः / तदेकः कुष्ठरोगातॊ रोरो दुःखी समागमत् // श्रुत्वा धर्मं तदा तस्य कुष्ठिनः प्राग्भवं भवम् / भूपोऽप्राक्षोत्तदा ज्ञानी जगाविति नृपाग्रतः / / कुसुमाढे पुरे नन्द-नागदेवौ सहोदरौ / परस्परं सदा प्रीति-भाजौ संवसतः स्फुटम् / / नन्दो वितनुते शुद्धं व्यवसायं वराशयः / तेन सर्वेषु लोकेषु श्लाघां प्राप स विस्तराम् / / किंचिल्लोभपरो नित्यं कुर्वन् विहृतिमात्मना / क्षीणस्वो देवद्रव्यं तु स्वल्पं भुङ्क्ते स्म कर्मतः / / वारितोऽपि च नन्देन नागदेवः सहोदरः। अशुद्धं व्यवसायं तु चकाराधममानसः॥ ततो नन्दोऽस्मरच्चित्ते क्रियते किं मयाऽधुना / भ्रातोऽपि रक्षितो नैव पापव्यापारतः खलु // नन्दः शुद्धं वृषं शश्वत् कुर्वन् स्वर्गे ययौ क्रमात् / ततश्च्युत्वा महीशस्य पुत्रोऽभूज्जिनसागरः // तत्रापि धर्ममासाद्य द्वितीये तविषेऽगमत् / ततश्च्युत्वोऽभवञ्चन्द्र-सेनो भूपो रमापुरे / / शुद्धं श्राद्धवृषं तत्र कृत्वा स्वर्गेऽच्युते गतः / तत्र स्वर्गसुखं भुञ्जन् बहुकोलमभूत् सुखी / ततश्च्युतोभवत्पुत्रो युगन्धराभिधोऽभवत् / जात्यस्मृत्या विलोक्य प्राग-भवान वीक्ष्य व्रतं ललौ / / देवद्रव्यविनाशेन नागदेवोंऽतरान्तरा / वर्यावर्यान् भवान् प्राप्य रोगवानभवत् स च / कथं रोगो ह्ययं ज्ञानी यास्यत्यस्य क्षयं क्रमात् / ज्ञानी प्राह शिवक्ष्माभ्रे गत्वा यथेष रोगवान् / / षष्ठे षष्ठे करिष्येत पारणं चैकभक्ततः / तदाऽस्य देहतः कुष्ठं याति सर्व क्षयं क्रमात् / / श्रुत्वैतद्रोगवान् सोऽपि ज्ञान्युक्तं कृतवान् समम् / कुष्ठिनो जग्मिवान् रोगः सार्धं प्राक्कृतकर्मणा // उत्पन्नं केवलज्ञानं सर्वविश्वावलोककम् / / राजापि धर्ममार्हन्त्यं कृत्वा शत्रुञ्जयाचले / गत्वा च श्रीयुगादीशं ननामाऽनघमानसः / / युगन्धगे बहून् भव्य-जीवान प्रबोध्य धम्मिणि / शत्रुञ्जये गतो मुक्तिं निःशेषकर्मणां क्षयात् // 20 // इति रोगोपशमे कुष्ठिकथा इय भद्दबाहुरइया कप्पा सित्तुंजतित्थमाहप्पं / सिरिवयरपहुद्धरियं जं पायलित्तेण संखिवियं // 38 // 'इय' इति भद्रबाहुगणधरेण 'कप्प' कल्पो ‘रचितः' निष्पादितः शत्रुञ्जयतीर्थमाहाम्ययुक्तः ‘सिरिवयरपहुद्धरिय' ' श्रीवत्रप्रभूद्धरितं' ततः पादलिप्तसूरिणा सङ्क्षिप्तम् , आदौ भद्रबाहुना रचितस्तत्सम्बन्धः प्रोच्यते दक्षिणाशापथे वर्षे प्रतिष्ठोनाभिधे पुरे / अभूज्जनार्दनो विप्रः सावित्री तप्रिया पुनः॥ क्रमात् तयोरभूतां तु पुत्रौ शोभनवासरे / भद्रबाहुवराहाह्रौ (द्वौ) वर्यलक्षणलक्षितौ // गतयोमरणं माता-पित्रोधनं गते सति / निर्धनौ तौ यशोभद्र-सूरिपार्श्वेऽन्यदा गतौ // संसारासारतां तत्र
Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404